________________
सूत्र १७१-१७६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३६५
।
पुण्डः भिन्नवर्णः। मुणत् प्रतिज्ञाने, मुण्ड:-परिवापितकेशः । शुनत् गतो, शुण्डा-सुरा, हस्तिहस्तश्च । आदिग्रहणादन्येभ्योऽपि भवति ।। १७०॥
ऋ-स-त-व्या-लिह्यवि-चमि-वमि यमि-चुरि-कुहेरडः ॥ १७१ ॥
एभ्यो अडः प्रत्ययो भवति । ऋक् गतौ, अरडः-तरुः । सृ गती, सरड:-भुजपरिसर्पः, तरुश्च । तु प्लवनतरणयोः, तरड:-वृक्षजातिः । व्यग् संवरणे, व्याडः-दुःशीलः, हिंस्रः, पशुः, भुजगश्च । लिहींक आस्वादने, लेहड:-श्वा, चौर्यग्रासी च । अव रक्षणादी, अवड:-क्षेत्रविशेषः । चमू अदने, चमडः पशुजातिः । टुवम् उगिरणे, वमड:-लूताजातिः । यमू उपरमे, यमड:-वनस्पतिः, युगलं च । चुरण. स्तेये चोरड:-चोरः । कुहणि विस्मापने, कुहडः-उन्मत्तकः ।। १७१ ।। . बिहड-कहोड-कुरड-केरड-क्रोडाडयः ॥ १७२ ।।
एतेऽडप्रत्ययान्ता निपात्यन्ते । विपूर्वात् हन्तेरनो लुक् च, विहडः शकुनिः मूढचित्तश्च । कर्हः प्रत्ययोऽकारस्य च ओकारः, कहोडः ऋषिः । करेगुणाभावश्च, कुरड:मार्जारः । किरतेः केर् च, केरड:-राज्ये राजा । कृगः कित् प्रत्ययोकारस्य च ओकारः । कोड:-किरिः, अङ्कश्च । आदिग्रणात् लहोडादयो भवन्ति ।। १७२ ॥
ज-फ-त-श-स-भृ-वृभ्योऽण्डः ॥ १७३ ॥
एभ्योऽण्ड: प्रत्ययो भवति । जुष्च् जरसि, जरण्ड:-अतीतवयस्कः । कृत् विक्षेपे, करण्ड -समुद्गः, समुद्रः, कृमिजातिश्च । तृ प्लवनतरणयोः, तरण्ड:-प्लवः, वायुश्च । शश । हिंसायाम् , शरण्डः-हिंस्रः, आयुधं च । सृगतो, सरण्ड:-कृमिजाति:, इषीका, वायुः, भूतसंघातः, तृषसमवायश्च । टुडुइंग्क पोषणे च, भरण्ड:-भण्डजातिः, पक्षी च । वृग्ट् वरणे, वरण्ड:-कुड्यम् , तृणकाष्ठादिभारश्च ।। १७३ ॥
पूगो गादिः ॥ १७४॥
पूग्श् पवने, इत्यस्मात् गकारादिः अण्डः प्रत्ययो भवति । पोगण्ड:-विकलाङ्गः युवा च ।। १७४ ।।
वनेस्त् च ॥ १७५ ॥
वन भक्तो, इत्यस्माद् अण्ड: प्रत्ययो भवति, तकारश्चान्तादेशो भवति । वतण्ड:ऋषिः ।। १७५।।
पिचण्डैरण्ड-खरण्डादयः ॥ १७६ ॥
एतेऽण्डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च । पिचण्ड:-लघुलगुडः। ईरेगुणश्च, एरण्ड.-पञ्चाङ गुलः । खाद भक्षणे, अन्त्यस्वरादेररादेशश्च, खरण्ड:-सर्वत् कम् । आदिग्रहणात् कूष्माण्डशयण्डशयाण्डादयोऽपि भवन्ति ॥ १७६ ।।