________________
३६८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-१९०-१६६
चिक्कण-दुक्कण-कण-कुङ्कण-त्रवणोल्वणोरणलवण-वङ्क्षणादयः ॥ १० ॥
एते किद् अण्प्रत्ययान्ता निपात्यन्ते । चिनोतेश्चिक्क च, चिक्कणः-पिच्छिलः । ककिकृगोः कोऽन्तश्च, कुक्कण:-शकुनिः । कृकण: ऋषिः । कूकेः स्वरान्नोऽन्तश्च, कुणाःजनपदः । पेर्वश्च, त्रवणः-देशः । वलेवस्य उत् , वोऽन्तश्च, उल्वणः-स्फारः । अर्तरुर् च, उरणः-मेषः । लीयतेः क्लिद्यते:-स्वद्यते-लवादेशश्च । लवणं, गुणः, द्रव्यं च । वञ्चेः सः परादिनलोपाभावश्च, वङक्षणः ऊरुमूलसंधिः । आदिशब्दात् ज्योतिरिङ्गणतुरणभुरणा. दयो भवन्ति ।। १६० ।।
कृषि-विषि-वृषि-धृषि-मृषि-युषि-द्रुहि-ग्रहेराणक् ।। १६१ ॥
एभ्य आणक् प्रत्ययो भवति । कृपौङ, सामर्थ्य कृपाणः-खङ्गः। विषू सेचने, विषाणः-शृङ्गम् , करिदन्तश्च । वृषू से चने, वृषाणः । त्रिधृषाट् प्रागल्भ्ये, धषाणः-देवः । मृषू सहने च, मृषाणः । युषि सेवने सौत्रः, युषाणः । द्रुहौच जिघांसायाम् , द्रुहाणः-मुखरः । ग्रहीश् उपादाने, गृहाणः । वृषाणादयः स्वप्रकृत्यर्थवाचिन: सर्वेऽपि कर्तरि कारके ज्ञेयाः ।। १९१ ।।
पषो णित् ॥ ११२ ॥
पषी बाधनस्पर्शनयोः इत्यस्माद् आणक् प्रत्ययो भवति, स च णिद् भवति । पाषाणः-प्रस्तरः॥ १६२॥
कल्याण-पर्याणादयः॥ १६३॥
कल्याणादयः शब्दा आणकप्रत्ययान्ता निपात्यन्ते। कलेोऽन्तश्च, कल्याणं श्वोवसीयम् । परिपूर्वात इणो लूक च । पर्याणम् -अश्वादीनां पृष्ठच्छदः । आदिशब्दाद् द्रेक्काणबोक्काण-केक्काणादयोऽपि भवन्ति ।। १९३ ।।
द्रु-ह-वृहि-दक्षिभ्य इणः ॥ १६४ ॥
एभ्यः इणः प्रत्ययो भवति । द्रु गतो, द्रविणं-द्रव्यम् । हग हरणे, हरिणः:-मृगः । बृह वृद्धौ, बहिण:-मयूरः । दक्षि शैध्ये च दक्षिणः-कुशलः, अनुकूलश्च । दक्षिणा, दिग् , ब्रह्मदेयं च ॥ १९४ ।।
ऋ-द्रुहेः कित् ॥ १६५॥
आभ्यां किद् इणः प्रत्ययो भवति । ऋश् गतौ, इरिणम्-ऊषरम् , कुञ्जः, वनदुर्ग च । द्रुहीच जिघांसायाम् , द्रुहिण:-ब्रह्मा, क्षुद्रजन्तुश्च ।। १६५ ॥
ऋ-क-व-धृ-दारिभ्य उणः ।।१६६ ।।
एभ्य उणः प्रत्ययो भवति । ऋक् गतौ, अरुणः सूर्य; सारथिः, उषा, वर्णश्च । कृत् विक्षेपे, करुणा-दया, करुणः-करुणाविषयः, करुणं-दैन्यम् । वृश् भरणे, वरुणः-प्रचेताः । धृग् धारणे, धरुणः-धर्ता, आयुक्तो, लोकश्च । दृश् विदारणे, णौ, दारुणः-उग्रः॥ १९६ ॥