________________
सूत्र-१४२-१४७ ]
स्वपज्ञोणादिगणसूत्रविवरणम्
एते टप्रत्ययान्ता निपात्यन्ते । हन्तेर्घघाघनश्च, घटा वृन्दम् । घाटा स्वाङ्गम् । घण्टा-वाद्य विशेषः । आदिग्रहणात् छटादयो भवन्ति ॥ १४१ ।।
दिव्यवि श्रु-कु-कर्वि-शकि कति कृपि चपि चमि-कम्येधि-कर्कि मकिं कक्खि
तृ कृ-सृ-भृ-वृ-भ्यो-ऽटः ॥१४२ ॥ एभ्योऽटः प्रत्ययो भवति । दिवूच क्रीडादौ, देवटः देवकुलविशेषः, शिल्पी च । अव रक्षणादौ, अवट:-प्रपात: कुपश्च । श्रंट श्रवणे, श्रवट: छत्त्रम् कंक शब्दे, कवट:उच्छिष्टम् । कर्ब गतौ कर्बटक्षुद्रपत्तनम् । शक्लृट् शक्ती, शकटम्-अनः । ककुङ गतौ, कङ्कट:-सन्नाहः । कङ्कटं सीमा। कृपौङ सामर्थ कर्पट-वासः । चप सान्त्वने, चपटः-रसः । चमू अदने, चमट:घस्मरः । कमूङ कान्ती, कमट: वामनः । एघि वृद्धी, एघटः वल्मीकः । ककि-मर्की-सौत्रौ । कर्कट:-कपिलः, कुलीरश्च, कर्कटी-ऋपुसो। मर्कटः कपिः, क्षुद्रजन्तुश्च । कक्ख हसने, कक्खटः कर्कशः । तृप्लवनतरणयोः तरट: पीनः । डुकृग करणे, करटः काकः, : करिकपोलश्च । सृ गती, सरट: कृकलासः । टुडुभृगक पोषणे च, भरट: प्लवविशेषः भृत्यः, कुलालश्च । वृग्ट् वरणे, वरटः क्षुद्रधान्यम् , प्रहारश्च ।। १४२ ।। . कुलि-विलिभ्यां कित् ॥१४३ ॥
आभ्यां किदटः प्रत्ययो भवति.। कुल बन्धुसंस्त्यानयोः, कुलटा-बन्धकी । विलत् विरणे, विलटानदी ।। १४३ ।।
कपट-कीकटादयः॥ १४४ ।।
कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेनलोपश्च, कपटं माया। ककेरत ईच्च, कीकट: कृपणः । आदिग्रहणात् लघटपर्पटादयो भवन्ति ।। १४४ ॥ ___ अनि-शृ. पृ-वृ ललिभ्य आटः ॥ १४५॥
एभ्य आट: प्रत्ययो भवति । अनक् प्राणने, अनाटः शिशुः । शुश् हिंसायाम्, शराटः शकुन्तः । पृश् पालनपूरणयोः, पराट आयुक्तकः । वृङश् संभक्तौ वराटः सेवकः । ललिण् ईप्सायाम्, ललाटम्, अलिकम् ।। १४५ ।।
सृ सृपेः कित् ॥ १४६ ॥
आभ्यां किदाट: प्रत्ययो भवति । सृ गतौ, स्राटः पुरःसरः । सृप्लौंगतो, सृपाटः अल्पः, कुमुदादिपत्त्रं च । सृपाटी-उपानत्, कुप्यम् अल्पपुस्तकश्च ।। १४६ ।
किरो लश्च वा ॥ १४७॥
किरतेः किदाटः प्रत्ययो भवति लश्चान्तो वा भवति । किलाटो-भक्ष्यविशेषः किराटो वणिक् , म्लेच्छश्च ।। १४७ ॥