SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-१४८-१५५ कपाट विराट शृङ्गाटप्रपुन्नाटादयः ॥ १४८ ॥ एते आटप्रत्ययान्ता निपात्यन्ते । कम्पेनलोपश्च, कपाट अररि: जपादीनां पो व: [२-३-१०५] इति वत्वे-कवाटः । वङ इत्वं च, विराट:-राजा । श्रयतेः श्रङग च. शृङ्गाट जलजविशेषः, विपणिमार्गश्च । प्रपूर्वात् पुणेर्नश्च, प्रपुनाट:-एडगजः । आदिशब्दात् खल्वाटादयो भवन्ति ।। १४८ ।। चिरेरिटो म च ॥ १४६ ॥ चिरेः सौत्रादिटः प्रत्ययो भवति, भकारश्चान्तादेशो भवति । चिभिटी वालुङ्गी ॥१४९ ।। टिण्टश्चर् च वा ॥ १५० ॥ चिरेष्टिदिण्टः प्रत्ययो भवति, चर् इति चास्यादेशो वा भवति । चरिण्टो चिरिण्टी च-प्रथमवयाः स्त्री ।। १५० ॥ त-कृ-कृषि-कम्पि-कृषिभ्यः कीटः ॥ १५१ ॥ एभ्यः किदिटः प्रत्ययो भवति । तृ प्लवनतरणयोः, तिरीटं कूलवृक्षः, मुकुटं, वेष्टनं च । कृत् विक्षेपे किरीटं मुकुट, हिरण्यं च । कृपौङ सामर्थ्य , कृपीट-हिरण्यं जलं च । कपुङ चलने, कम्पीट-कम्पः, कम्पं च । कृषीत् विलेखने, कृषीटं जलम् ॥ १५१ ।। खजेरीटः॥ १५२॥ खजु गतिवैकल्ये, इत्यस्मादरीटः प्रत्ययो भवति । खजरीट खञ्जनः ।।१५२।। गु-ज-द-व-भृभ्य उट उडश्च ॥ १५३ ॥ एभ्य उट उडश्च प्रत्ययौ भवतः । भिन्नविभक्तिनिर्देश उटस्योत्तर त्रानुबत्त्यर्थः । अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम् । गृश शब्दे, गरुट:-गरुडश्च-गरुत्मान् जषच जरसि, जरुटः, जरुडश्च वनस्पतिः। दृश् विदारणे, दरुट! दरुडश्च बिडालः । वश वरणे, वरुट: वरुडश्च मेषः । भृष् भर्जने च, भरुट: भरुडश्च मेष एव ।। १५३ ।। मकर्मकमुकौ च ॥ १५४ ॥ मकुङ मण्डने, इस्यस्मात् उटः प्रत्ययो भवति, मक मुक इत्यादेशौ चास्य भवतः । मकुटः मुकुटश्च-किरीटः ॥ १५४ ।। नकुट कुक्कुटोत्कुरुट-मुरुट-पुरुटादयः ॥ १५५ ॥ एते उटप्रत्ययान्ता निपात्यन्ते । नृतेः कश्च, नर्कुट:-बन्दी । कुकेः कोऽन्तश्च, कुक्कुट:-कृकवाकः । उतपूर्वात् कृगः, कुर् च उत्कुरुटः कचवारपुञ्जः। मुरिपुर्योगुणाभावश्च, मुरुटः यत् वेण्वादिमूलमृजूकतु न शक्यते । पुरुट:-जलजन्तुः । आदिशब्दात् स्थपुटादयो भवन्ति ।। १५५ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy