________________
३६० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-१३२-१४१
भिषेरजः प्रत्ययो भवति, भिषभिष्ण इत्यादेशौ चास्य वा भवतः। भिषिः सौत्रः, भिषजः । आदेशबलान्न गुणः । भिष्मजः-वैद्यः, भेषजम्-औषधम् ॥१३१।।
मुमुर् च ॥ १३२ ॥ ___ मुर्वे बन्धने, इत्यस्मादजः प्रत्ययो भवति । अस्य च मुर् इत्यादेशो भवति । मुरजः
मृदङ्गः ।। १३२॥
बलेर्वोन्तश्च वा ॥ १३३॥
बल प्राणनधान्यावरोधयोः, इत्यस्माद अजः प्रत्ययो भवति, वकारश्चान्तो वा भवति । बल्वजः-मुजविशेषः । बलजा-सबुसो धान्यपुजः ।। १३३ ।।
. उटजादयः ॥ १३४॥
उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते, वटेवस्योत्वं च । आदिशब्दात् भूर्जभरुजादयो भवन्ति ।। १३४॥
कुलेरिजक् ॥ १३५॥ कुल बन्धुसंस्त्यानयोः, इत्यस्मात् इजक् प्रत्ययो भवति । कुलिज-मानम् ॥१३५।। कृगोऽञ्जः॥ १३६ ॥ करोतेरञ्जः प्रत्ययो भवति । करञ्जः-वृक्षजातिः ।। १३६ ।। झमेझः ॥ १३७॥ झमू अदने, इत्यस्मात् झः प्रत्ययो भवति । झजा-सशीकरो मेघवातः ।।१३७॥ लुषेष्टः ॥ १३८॥ लुष स्तेये, इत्यस्माट्टः प्रत्ययो भवति । लोष्टोमृपिण्डः ॥ १३८ ।। नमि-तनि-जनि-बनि-सनो लुक् च ॥ १३६ ॥
एभ्यष्टः प्रत्ययो भवति, लुक् चान्तस्य भवति । पमं प्रह्वत्वे, नट:-भरतपुत्रः । तनूयी विस्तारे, तटंकूलम् । जनैचि प्रादुर्भावे, जटा-ग्रथितकेशसंघातः। वन षण संभक्ती, वट:-न्यपोधः। सटा-अग्रथितः केशसंघातः ।। १३९ ।।
जनि पणि किजुभ्यो दीर्घश्च ॥ १४०॥
एभ्यष्टः प्रत्ययो भवति, दीर्घश्चैषां गुणापवादो भवति । जनैचि प्रादुर्भावे, पणि व्यवहारस्तुत्योः, जाण्टः, पाण्ट: वृक्षविशेषावेतौ। किजू सौत्रौ, कीट:-क्षुद्रजन्तुः । जूटः मौलिः॥ १४०॥
घटा घाटा घण्टादयः ॥ १४१ ॥