________________
सूत्र-१२४-१३१ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३५९
एभ्य इञ्चक् प्रत्ययो भवति । कुटेः, कुटिञ्चः-क्षुद्रकर्कटः । कुलेः, कुलिञ्च:राशिः । कलेः, कलिञ्चः-उपशाखावयवः । उद आघाते सौत्रः, उदिञ्च कोण: येन तूर्य वाद्यते, परपुष्टश्च ।।१२३।।
तुदि-मदि-पद्यदि-गु-गमि-कचिभ्यच्छक् ॥ १२४ ॥
एभ्यश्छक् प्रत्ययो भवति । तुदीत् व्यथने, तुच्छ:-स्तोकः । मदैच् हर्षे, मच्छ:मत्स्यः, प्रमत्तपुरुषश्च; मच्छा-स्त्री । पदिंच गतौ, पच्छः शिला। अदंक भक्षणे, अच्छ:निर्मलः । गुङ शब्दे, गुच्छः स्तबकः । गम्लु गतौ, गच्छः क्षुद्रवृक्षः। कचि बन्धने, कच्छ: कूर्मपादः, कुक्षिः नद्यवकुटारश्च । कच्छा जनपदः । बाहुलकात् कत्वाभावः ।१२४॥
पीपूडोह्रस्वश्च ॥ १२५ ॥ • आभ्यां छक् प्रत्ययो भवति, ह्रस्वश्च भवति । पीङच पाने, पिच्छम् -शकुनिपत्त्रम्, पिच्छ:-गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूङ पवने, पुच्छं वालधिः ॥१२५।।
गुलुञ्छ-पिलिपिञ्छैधिच्छादयः ॥ १२६ ॥
एते छप्रत्ययान्ता निपात्यन्ते । गुडेल उम् चान्तः, गुलुञ्छः स्तवकः । पीलेरिपि नोन्तो ह्रस्वश्च, पिलिपिञ्छः-रक्षाविशेषः । एधेरिट च, एपिच्छः नगः । आदिग्रहणात् पिञ्छादयोऽपि भवन्ति ।। १२६ ।। - वियो जक् ।। १२७ ॥
वींक् प्रजनकान्त्यसनखादनेषु च, इत्यस्मात् जक् प्रत्ययो भवति । बीजम्उत्पत्तिहेतुः ।। १२७॥
पुवः पुन् च ॥ १२८॥
पूङ पवने, इत्यस्मात् जक् प्रत्ययो भवति । अस्य च पुन् इत्यादेशो भवति । पुजः राशिः ॥१२८॥
कुवः कुब्कुनी च ॥ १२ ॥
कुछ शब्दे, इत्यस्मात् जक् प्रत्ययो भवति । अस्य च कुष् कुन् इत्यादेशौ भवतः । कुब्जः-वक्रानताङ्गः, गुच्छश्च । कुञ्जः-हनुः, पर्वतैकदेशश्च । निकुञ्जः-गहनम् ॥१२६॥
कुटेरजः ॥ १३ ॥
कुटत् कौटिल्ये, इत्यस्मादजः प्रत्ययो भवति । कुटजः-वृक्षविशेषः । कुटादित्वात् टित्त्वम् , कुटजी ।। १३० ॥
भिषेभिषभिष्णौ च वा ॥ १३१॥ .