________________
३५८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-११५-१२३
एभ्योऽचः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलच:-गणक: । अव रक्षणादौ, अवच:-उच्चस्तरः। मदैच् हर्षे, मदच: मत्तः । मण शब्दे, मणचः-शकुनिः । कुङ शब्दे, कवचं-वर्म । कण शब्दे, कणचः-कणयः । कुटत् कौटिल्ये, कुटचः वृक्षजातिः, कृत विक्षेपे, करच:-धान्यावपनम् ।। ११४।।
क्रकचादयः ॥ ११५ ॥
क्रकच इत्यादयः शब्दा अप्रत्ययान्ता निपात्यन्ते । क्रमेः कश्च, जक:-करपत्त्रः । आदिशब्दादन्येऽपि ॥ ११५ ।।
पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे, इत्यस्मादाचक् प्रत्ययो भवति । पिशाचः-व्यन्तरजातिः ।।११६॥ मृ-पिभ्यामिचः ॥ ११७ ॥
आभ्यामिचः प्रत्ययो भवति । मृत् प्राणत्यागे, मरिचम् ऊषणम् । त्रप्रौषि लज्जायाम् , त्रपिचा-कुथा ॥ ११७ ॥
म्रियतेरीचण ॥११८ ॥ मृत् प्राणत्यागे, इत्यस्मादीचण् प्रत्ययो भवति । मारोचः-रावणमातुलः ॥११८।। लषेरुचः कश्च ॥ ११९ ॥
लषी कान्तौ। इत्यस्मादुचः प्रत्ययो भवति । अन्त्यस्य च को भवति । लकुच:वृक्षजातिः ।। ११६ ।।
गुडेरूचट् ॥ १२०॥
गुडत् रक्षायाम् , इत्यस्मादूचट् प्रत्ययो भवति । गूडूची-छिन्नरुहा । कुटादित्वाद टित्त्वम् ।। १२० ॥
सिवेडित ॥१२१॥
षिवूच् ऊतो, इत्यस्यात् उचट् प्रत्ययो डित् भवति । सूचः-पिशुनः, स्तिभिश्चः । सूची-संधानकरणी ॥१२१॥
चि-मेडोंचडचौ ॥ १२२॥
चिमिभ्यां प्रत्येकं डोच डञ्च इति प्रत्ययो भवतः । वचनभेदान्न यथासंख्यम् । चिंगट चयने, चोचः वृक्षविशेषः, चञ्चा-तृणमयः पुरुषः। डुमिंगट प्रक्षेपणे, मोचा-कदली, मञ्चःपर्यङ्कः ।।१२२॥
कुटि-कुलि-कल्युदिभ्य इश्वक् ।। १२३ ॥