________________
सूत्र-१०६-११४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३५७
माङस्तुलेरुङ्गक् च ॥ १०६ ॥
माङपूर्वात् तुलण उन्माने, इत्यस्मात् उङ्गक इङ्गक् च प्रत्ययौ भवतः । मातुलुङ्गः बीजपूरः, मातुलिङ्गः स एव ।। १०६ ।।
कमि-तमि-शमिभ्यो डित् ।। १०७॥
एभ्यो डिदुङ्गः प्रत्ययो भवति । कमूङ कान्ती, कुङ्गा जनपदः । तमूच काङ्क्षायाम्, तुङ्गः-महावर्मा, शमूच् उपशमे, शुङ्गः-मुनिः, शुङ्गा-विनता । शुङ्गाः-कन्दल्यः । १०७॥
सतेः सुर्च ॥ १०८ ॥
सृ गतौ इत्यस्मादुङ्गः प्रत्ययो भवति, सुर् चास्यादेशो भवति । सुरुङ्गा-गूढमार्गः ।। १०८।।
स्था-ति-जनिभ्यो घः॥१०६ ॥
एभ्यो घः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती, स्थाघः गाधः । ऋप्रापणे च, अर्घ:मूल्यम्, मानप्रमाणं, पादोदकादि च । जनैचि प्रादुर्भावे, जवाशरीरावयवः ॥ १०९ ॥
__ मघा घवाघ-दीर्घादयः ॥ ११ ॥
___ एते घप्रत्ययान्ता निपात्यन्ते । मङनूघलोपश्च । मघा नक्षत्रम् । हन्तेहंस्य घश्च, घङ्घः-घस्मरः, घवा काङ्क्षा । अमेलुक् च, अघं-पापम् । हणातेीर् च, दीर्घ-आयतः, उच्चश्च । आदिशब्दादन्येऽपि ॥११॥
सतेरेघः॥१११॥ सृ गतो, इत्यस्मादधः प्रत्ययो भवति । सरघामधुमक्षिका ॥१११॥ कु-पू-समिणभ्यश्चट् दीर्घश्च ॥ ११२ ॥
कुपूभ्यां सम्पूर्वाच्च इणश्चट् प्रत्ययो भवति । दीर्घश्च भवति, टो ड्यर्थः । कुङ शब्दे, कूचः-हस्ती, कूची-प्रमदा चित्रभाण्डम् , उदश्वित्, विकारश्च । पूग्श् पवने, पूचः, पूची मुनिः । इंणक् गती, समीचः ऋत्विक, समीचं-मिथुनयोगः। समीची-पृथ्वी, उदीची च, दीर्घवचनाद् गुणो न भवति ॥ ११२ ॥
कूर्च-चूर्चादयः ॥ ११३ ॥
कूर्च इत्यादयः शब्दाश्चट्प्रत्ययान्ता निपात्यन्ते । कवतेः किरतेः करोतेर्वा ऊरादेशश्चान्तस्य । कूर्च-श्मश्रु आसनं, तन्तुवायोपकरणं, यतिपवित्रकं च । कूर्चमिव कूर्चकः कूचिकेति च भवति । चरतेश्चोरयतेर्वा चूरादेशश्च, चूर्चः-बलवान् । आदिशब्दादन्येऽपि ।। ११३ ॥
कल्यवि-मदि-मणि-कु-कणि-कुटि कृभ्योऽचा ॥ ११४ ॥