________________
सूत्र-५०-६३ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३५१
धोभागः, जम्बुकः-सृगालः । चुलुम्पः सौत्रः, अन्त्यस्वरादिलोपश्च चुलुम्पतीति-चुलुकः करकोशः चतेश्चूच च, चूचुक:-स्तनाग्रभागः । ज्वलेरुल्म् च, उल्मुकम्-अलातम् । भातेर्वोऽन्तश्च, भावुकः-भगिनीपतिः । प्रथिष् प्रख्याने, पृथुकः-शिशुः व्रीह्याद्यभ्यूषश्च । मचि कल्कने, घश्चान्तादेशः, मधुकं यष्टीमधुः । आदिग्रहणाद् वालुको-वालुकादयो भवन्ति ।।५७।
मृ-मन्यञ्जि-जलि-बलि-तलि-मलि-मल्लि-भालि-मण्डि-बन्धिभ्य ऊकः ॥ ५८ ॥
एभ्य ऊकः प्रत्ययो भवति । मृत् प्राणत्यागे, मरूक:-मयूरः, मृगः, निदर्शनेभः, तृणं च । मनिच् ज्ञाने, मनूक:-कृमिजातिः । अजौप व्यक्ति-म्रक्षण-गतिषु, अजूकःहिंस्रः। जल घात्ये, जलूका-जलजन्तुः । बल प्राणन-धान्यावरोधनयोः, बलूकः-उत्पलमूलं, मत्स्यश्च तलण् प्रतिष्ठायाम् , तलूक:-त्वकृमिः । मलि धारणे, मलूकः-सरोजशकुनिः । मल्लि धारणे, मल्लूक:-कृमिजातिः। भलिण आभण्डने, भालूकः ऋक्षः । मुह भूषायाम् मण्डूके:-दुर्दुरः बन्धंश् बन्धने, बन्धूकः- बन्धुजीवः ।। ५८ ॥
शल्यणेर्णित् ॥ ५९॥
आभ्यां णिदूकः प्रत्ययो भवति । पल फल शल गतौ, शालूकं-जलकन्दः, बलवांश्च । अण शब्दे, आणूकम्-अक्षिमलम् ॥ ५६ ॥
कणि-भल्लेर्दीर्घश्व वा ॥ ६० ॥
आभ्यामकः प्रत्ययो भवति, दीर्घश्चानयोर्वा भवति । कण शब्दे, कणक:-धान्यस्तोकः, काणूक:-पक्षी, काएकम्-अक्षिमलम्, तमो वा । भल्लि परिभाषण-हिंसा-दानेषु, भल्लूक: भाल्लूकश्च-ऋक्षः ।। ६० ।।
शम्बूक--शाम्बूक-वृधूक-मधूकोलूकोरुबूक-वरूकादयः॥ ६१ ॥
एते ऊकप्रत्ययान्ता निपात्यन्ते । शमेोऽन्तो दीर्घश्च वा । शम्बूकः-शङ्खः, शाम्बूकः स एव । वृश् भरणे, अस्य वृधभावश्च, वृधूक:-मातृवाहकः, वृधूकं जलम् । मदेर्धश्च, मदयतीति-मधूकः-वृक्षः । अलेरुच्चोपान्त्यस्य, उलूकः-काकारिः । उरुपूर्वाद् वातेः किच्च, उरु वाति उरुवूकः-एरण्डः । वृधेर्लोपश्च, वर्धत इति-वरूकः-तृणजाति: आदिग्रहणादनूकवावदूकाऽऽदयो भवन्ति ।। ६१ ।।
किरोऽङ्को रो लश्च वा ।। ६२ ।।
किरतेरङ्कः प्रत्ययो भवति । रेफस्य च लकादेशो वा भवति । करङ्कः-समुद्रः, कलङ्कः-लाञ्छनम् ।। ६२ ।।
रा-ला-पा-का-भ्यः कित् ॥ ६३॥
एभ्य किदङ्कः प्रत्ययो भवति । रांक दाने, रङ्क: बलीयान् । लांक दाने, लङ्का पुरी । पांक रक्षणे, पङ्कः कर्दमः । के शब्दे कङ्कः पक्षी ।। ६३ ॥