________________
३५२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६४-७२
कुलि-चिरिभ्यामिङ्कक् ।। ६४ ॥
आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलिङ्कः चटका। चिर हिंसायाम् सौत्रः, चिरिङ्क जलयन्त्रम् ॥ ६४ ॥
कलेरविङ्कः॥ ६५॥ कलेरवितः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलविङ्कः गृहचटकः ।। ६५ ।। क्रमेरेलकः ॥६६॥ क्रम पादविक्षेपे, इत्यस्मादेलकः प्रत्ययो भवति । क्रमेलकः करभः ।। ६६ ।।। जीवेराको जैव च ।। ६७॥
जीव प्राणधारणे, इत्यस्मादातृक: प्रत्ययो भवति, जैव इत्यादेशश्च भवति । जैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ।। ६७ ।।
हृ-भू-लाभ्य आणकः ॥ ६८॥
एभ्य आणक: प्रत्ययो भवति । हग हरणे, हराणक: चौरः । भू सत्तायाम् , भवाणकः गृहपतिः । लांक् आदाने, लाणकः हस्ती ॥ ६८ ॥
प्रियः कित् ॥ ६६ ॥
प्रींग्श् तृप्तिकान्त्योः, इत्यस्मादाणकः प्रत्ययो भवति स च कित् भवति । प्रियाणकः पुत्रः ।। ६९ ॥
धा--लू-शिशिभ्यः ॥ ७० ॥
योगविभाग उत्तरार्थः एभ्यश्च आणकः प्रत्ययो भवति । डुधांग्क घारणे च, घाणकः दीनारद्वादशभागः हविषां ग्रहः छिद्रपिधानं च । लूग्श् छेदने, लवाणकः कालः तृणजाति: दात्रं च । शिघु आघ्राणे, शिवाणकः नासिकामलः ॥ ७० ॥
शी-भी राजेश्चानकः ॥ ७१॥
शीभीराजिभ्यो घालूशिङ्घिभ्यश्च आनक: प्रत्ययो भवति । शीङ क स्वप्ने, शयानकः-अजगरः, शैलश्च । त्रिभीक भये, बिभेत्यस्मादिति भयानकः भीमः, व्याघ्रः, वराहः, राहश्च । राजग दीप्ती, राजानक:-क्षत्रियः । डुधांग्क् धारणे च, धानक:-हेमादिपरिमा. णम् । लूग्श छेदने, लवानक:-देशविशेषः, दात्रं च । शिवन्त्यनेनेति शिवानक:-श्लेष्मायुः पुरीषं च ।। ७१॥
अणेर्डित् ॥ ७२॥ अणेडिदानकः प्रत्ययो भवति । अण् शब्दे, आनक:-पटहः ।। ७२॥