________________
३५० ]
स्वोपज्ञोणादिगण सूत्रविवरणम् ।
[ सूत्र- ५१-५७
पकारयोः फत्वं रश्चान्तः पूर्वस्य, फफेरीकं - पल्लवं, पादुका, मर्दलिका च झीर्यद्वित्वं तृतीय भावः पूर्वस्य रश्चान्तः, झर्झरीक:- देहः, अर्झरीका - वादित्रभाण्डम् । एवं - घस्ते, घरीका - घण्टिका आदिग्रहणादन्येऽपि ।। ५० ।।
मि-मि-कटि भल्लि कुरुकः ॥ ५१ ॥
एभ्य उकः प्रत्ययो भवति । डुमिंग्ट् प्रक्षेपणे, मयुकः - आतपः । बाहुलकात् "मिग्मीनो०" [ ४-२-८ ] इति नात्वम् । टुवम् उद्गिरणे, वमुकः - जलद: । 'कटे वर्षा ऽऽवरणयोः, कटुकः - रसविशेषः । भल्लि परिभाषण - हिंसादानेषु, भल्लुक :- ऋक्ष: । कुणि विस्मापने, कुहुकम् - आश्चर्यम् ।। ५१ ।।
सं-विभ्यां कसेः ॥ ५२ ॥
आभ्यां परस्मात् कसेरुकः प्रत्ययो भवति क स गतौ, संकसुकः- सुकुमारः, परापवादशीलः, श्राद्धाग्निश्च संकसुकं व्यक्ताव्यक्तं संकीर्णं च । विकसुक:- गुणवादी, परि
श्रान्तश्च ।। ५२ ।।
क्रमेः कृ॒म् च वा || ५३ "
*मेरुकः प्रत्ययो भवति, श्रस्य च 'कृम' इत्यादेशो वा भवति । क्रमू पादविक्षेपे, कृमुकः- बन्धनम् आदेशविधानबलाच्च न गुणः क्रमुकः पूगतरु ।। ५३ ।।
कमि तिमेर्दोऽन्तश्च ॥ ५४ ॥
आभ्यामुकः प्रत्ययो भवति, दश्चान्तो भवति । कमुङ्कान्तौ कन्दुक:- क्रीडनम् । तिमच् आर्द्रभावे, तिन्दुकः - वृक्षः ।। ५४ ।।
मण्डेर्मड्डश्च ॥ ५५ ॥
मण्डैरुकः प्रत्ययो भवति मड्डु च आदेशो भवति । मडु भूषायाम् मड्डुक:वाद्यविशेषः ।। ५५ ।।
कण्यणेर्णित् ।। ५६ ।।
आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे, काणुकः काकः, हिंस्रश्च, काणुकम् आणुकं च-अक्षिमलम् ।। ५६ ।।
कञ्चुक शुक-- नंशुक-पाकुक-हिबुक-चिबुक - जम्बुक- चुलुक-चूचुकोल्मुक-भावुकपृथुकमधुकादयः ॥ ५७ ॥
एते किदुकप्रत्ययान्ता निपात्यन्ते कचि बन्धने अशोटि व्याप्तौ नशौच अदर्शने, एषां स्वरान्नोऽन्तश्च कञ्चुकः - कूर्पासः, अंशुकं - वस्त्रम् नंशुको - रणरेणुः, प्रवासशीलः, चन्द्रः, प्रावरणं च । पचेः पाक् च पाकुक:- लघुपाची सूपः, सूपकारः अध्वर्युं श्च । हिनोतिचिनोति जमतीनां वोऽन्तश्च, हिबुकं - लग्नाच्चतुर्थ स्थानम्, रसातलं, चिबुकं - मुखा