________________
सूत्र ४७-५० ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
[ ३४९
C
असत्यम् , अलीका-पण्यस्त्री, व्यलीकम्-अपराध:, व्यलोका-लज्जा । पलण रक्षणे, पालीकं-तेजः । कण शब्दे, कणीक:-पटवासः, कणीका-भिन्नतण्डुलावयवः, वनस्पतिबीजं च ।। ४६ ।।
ज--प-द : श-वृ-मृभ्यो द्वे रश्चादौ ॥४७॥
एभ्यः ईकः प्रत्ययो भवति, द्वे च रूपे भवतः, एषां चादौ रो भवति । जषच जरसि, जर्जरीका-शतपत्त्री । पृश् पालन-पूरणयोः, पर्परीका-जलाशयः, सूर्यश्च; पर्परीकः-अग्निः , कुररः, भक्ष्यम् , कुकुरश्च । दृश् विदारणे, दर्दरीकः-दाडिमः, इन्द्रः, वादित्रविषेषः, वादित्रभाण्डं च । शृश् हिसायाम् , शर्शरीकः-कृमिः, विकलेन्द्रियः, दुष्टाश्वः, लावकश्च, शहरीका-माङ्गल्याभरणम् वृन्ट् वरणे, वर्वरीकः-संवरणम् , उरणः, पतत्त्री; केशसंघातश्च, वर्वरीका-सरस्वती मूत् प्राणत्यागे, मर्मरीक:-अग्निः, शूर , श्येनश्च ।। ४७ ।।
ऋच्यजि-हृषीषि-दृशि-मृडि-शिलि-निलीभ्यः कित् ।। ४८॥
एभ्यः किदीकः प्रत्ययो भवति । ऋचत् स्तुतौ ऋचीकः-ऋषिः । ऋजि गतिस्थानार्जनोर्जनेषु, ऋजीक-वज्रम् बलं, स्थानं च । हृष् अलीके, हृषच तुष्टौ वा, हृषीकम्इन्द्रियम् । इषत् इच्छायाम् ईष उञ्छे, ईष गति-हिंसा-दर्शनेषु वा, इषीका, ईषीका च तृणशलाका । दृशं प्रेक्षणे, दृशीक-मनोज्ञम् , दृशीका रजस्वला। मृडत् सुखने, मृडीकंसुखकृत् , सुखं चशिलत् उञ्छे, शिलीकः-सस्यविशेषः । लींडच श्लेषणे निपूर्वः, निलीकवृत्तम् । बाहुलकादीलुक् ।। ४८ ।।
मृदेवोऽन्तश्च वा ॥ ४६॥ मृदेः किदीकः प्रत्ययो भवति, वकारश्चान्तो वा भवति । मृदश् क्षोदे, मृद्वीका मृदीका च-द्राक्षा ॥ ४६॥
सृणीका-ऽस्तीक--प्रतीक-पूतीक-समीक-वाहीक-वाहीक-बल्मीक-फल्मलीकतिन्तिडीक--कङ्कणीक--किङ्किणीक--पुण्डरीक-चञ्चरीक-फर्फरीक-झझरिक--धर्धरीकाऽऽदयः ।। ५० ॥.
____एते किदीकप्रत्ययान्ता निपात्यन्ते । सर्तेोऽन्तश्च, सृणीकः-वायुः अग्निः अशनिः, उन्मत्तश्च, सणोका लाला अस्तेस्तोऽन्तश्च । अस्तीक:-जरत्कारुसुतः। प्रांक् पूरणे, प्रातेस्तोऽन्तो ह्रस्वश्च प्राति शरीरमिति-प्रतीकः-वायुः अवयवः, सुखं च । सुप्रतीक:-दिग्गजः । पुवस्तोऽन्तश्च, पूतीकं तृणजातिः । सम्पूर्वस्य एतेलुक् च, संयन्त्यस्मिन्नितिसमीक-संग्रामः। वहि-वल्हयो-र्दीर्घश्च, वाहीक;, वल्हीकः, एतौ देशौ । वलेर्मोऽन्तश्च, वल्मीकः-नाकुः । कलेर्मलश्चान्तः, कल्मलीक-ज्वाला । तिमेस्तिड् चान्त, तिन्तिडीकः-पक्षी, वृक्षाम्लश्च, तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । च्डक्षण्यते: कङ्कण च, कङ्कणीकः-घण्टाजालम् । किमः परात् कणतेः कि ण चू, किङ्किणीका-घण्टिका । पुणेर्डर चान्तः, पुण्डतेर्वा अर्, पुण्डरीक-पद्म, छत्त्रं व्याघ्रश्च । चञ्चेरर् चान्तः, चञ्चरीकः-भ्रमरः। पिपर्त्तगुणो द्वित्वं