SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सूत्र - ३५-३९ ] स्वोपज्ञोणादिगणसूत्र विवरणम् । [ ३४७ शाकजाति: । भदुङ सुख - कल्याणयोः, भन्दाकं - शासनम् । वदुङ स्तुत्यभिवादनयोः, वन्दाकः - चीवरभिक्षुः । मदुङ स्तुत्यादिषु, मन्दाका - औषधी । णमं प्रहृत्वे, नमाकाम्लेच्छजातिः । कुंङ शब्दे, कवाकः - पक्षी । टुट् उपतापे, दवाक:- म्लेच्छः । पूङ पवने, पवाका - वात्या । मनिच् ज्ञाने, मनाका हस्तिनी । खज मन्थे, खजाक:- आकरः, मन्थाः, दविः, आकाश, बन्धकी, शरीरं पक्षी च ॥। ३४ ।। शुभि - गृहि विदि-पुलि-गुभ्यः कित् ॥ ३५ ॥ एभ्यः किदाक: प्रत्ययो भवति । शुभि दीप्ती, शुभाका - पक्षिजातिः । गृहणि ग्रहणे, गृहाकः । विदंक ज्ञाने, विदाका भूतग्रामः । पुल महत्त्वे, पुलाकः, अर्धस्विन्नो धान्यविशेष: । गुंङ शब्दे, गुंतू पुरीषोत्सर्गे वा, गुवाकं - पूगफलम् ।। ३५ ।। पिषेः पिन-पिण्यौ च ॥ ३६ ॥ 'पिष्लृ प संचूर्णने" इत्यस्मात् किदाकः प्रत्ययो भवति, अस्य च 'पिन् पिण्य' इत्यादेशौ भवतः । पिनाकम् - ऐशं धनुः शूलं वा, पिनाक:-दण्डः, पिण्याकः - तिलादि खलः ।। ३६ । मवाक - श्यामाक-वार्ताक-वृन्ताक - ज्योन्ताक-गूवाक-भद्राकाऽऽदयः || ३७ ॥ एते आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने, यलोपः, मवाक:- रेणुः । श्यैङ गतौ, मोऽन्तश्च, श्यामाक. - जघन्यो व्रीहिः । वृतेर्वृद्धिश्च वार्ताकी - शाकविशेषः तत्फलं वार्ता - कम् । स्वरान्नोऽन्तश्च, वृन्ताकी उच्चबृहती, तत्फलं - वृन्ताकम् । ज्युङ गतौ, न्तश्च प्रत्ययादिः, ज्यवतेऽस्मिन् स्विद्यमान इति - ज्योन्ताकं - स्वेदसद्मविशेषः । गुंतु पुरीषोत्सर्गे, गुंड शब्दे वा, ऊवादेशश्च, गूवाकं पूगफलम् । भदुङ सुखकल्याणयो:, अस्य भद्रादेशश्च, भद्राक:- - अकुटिलः । आदिग्रहणात् स्योनाक- चार्वाक - पराकाऽदयो भवन्ति ॥ ३७ ॥ क्री-कल्यलि - दलि- स्फटि-दूषिभ्य इकः ॥ ३८ ॥ एभ्यइकः प्रत्ययो भवति । डुक्रींगश् द्रव्यविनिमये, क्रयिकः - क्रेता । कलि शब्दसंख्यानयोः, कलिका- कोरकः, उत्कलिका - ऊर्मिः । अली भूषणादो, अलिकं ललाटम् । दल विशरणे, दलिकं दारु । स्फट स्फुट्ट विसरणे, स्फटिक :- मणिः । दुषच् वैकृत्ये, दूषिकानेत्रमलः ॥ ३८ ॥ आङः पणि-पनि-पदि पतिभ्यः ॥ ३६ ॥ आङः परेभ्य एभ्य इकः प्रत्ययो भवति । पणि व्यवहार- स्तुत्योः, आपणिक:- पत्तनवासी, व्यवहारज्ञो वा । पनि स्तुतौ, आपनिक :- स्तावकः, इन्द्रनीलः, इन्द्रकीलो वा । पदिच् गतो, आपदिक:- इन्द्रनीलः, इन्द्रकीलो वा । पत्लृ गतो, आपतिकः पथि वर्तमानः, मयूरः, श्येनः कालो वा । आपणिकादयश्चत्वारो वणिजोऽपि ।। ३९ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy