________________
३४६ ]
स्वपज्ञोणादिगणसूत्रविवरणम् ।
[सूत्र-३१-३४
खड्गः, क्षुरश्च, छेदक:-परशुः । भिदृपी विदारणे, भिदक-जलं, पिशुनश्च, भेदक-वज्रम् । पिट शब्दे च, पिटक:-क्षुद्रस्फोटकः, पेटक-संघातः ।। ३० ॥
कृषगुण-वृद्धी च वा ॥ ३१ ॥
कृषेरकः प्रत्ययो भवति, गुण-वृद्धी चास्य वा भवतः । कृषीत् विलेखने, कर्षक:, कृषकः-परशुः, कार्षकः, कृषकः-कुटुम्बी ।। ३१ ॥
नञः पुंसेः ॥ ३२ ॥
नञः परात् "पुंसण अभिमर्दने" इत्यस्मात् किदकः प्रत्ययो भवति । नपुंसकंतृतीया प्रकृतिः, नखादित्वात् “नत्रत्" (३-२-१२५) न भवति ॥ ३२ ॥ कीचक-पेचक-मेचक-मेनका-भक-धमक-वधक-लघक-जहकैरकैडका-ऽश्मक
लमक-क्षुल्लक-वटवकाऽऽढकाऽऽदयः ॥ ३३ ॥ एते कीचकादायः शब्दा अकप्रत्ययान्ता निपान्यन्ते । कचि बन्धने, अस्योपान्त्यस्येत्वं च, कोचकः-वंशविशेषः । डुपची पाके, मचि कल्कने, मनिच् ज्ञाने, एषामुपान्त्यस्यत्वं च पेचकः-करिजघनभागः, मेचक:-वर्णः, मेनका-अप्सराः । अर्तेर्भश्चान्तः, अर्भक:बालः । ध्मां शब्दाऽग्निसंयोगयो:, अस्य धमादेशश्च, धमक:-कीट:, करिश्च, अन्यत्रापि धमादेशो दृश्यते, क्ते-धान्तः । हन्तेबंधश्च, वधक:-हन्ता, व्याधिश्च, वधक-पद्मबीजम, अन्यत्रापि दृश्यते, वृत्रं हन्ति अचि-वृत्रवधः-शक्रः, बधिता-निर्मोचकः, बध्यः, वधनम् । लघुङ गतौ, नलुक् च, लधक:-असमीक्ष्यकारी। जहाते रूपे अन्तलुक् च. जहक:-काल:, क्षुद्रश्च । ईरिक् गति-कम्पनयोः, ईङिक स्तुती, अनयोगुणश्च, एरका-उदकतृणजातिः, एडका-अविजातिः । अशोटि व्याप्तौ, अस्य मोऽन्तः, अश्मका-जनपदः । रमि क्रीडायाम्, अस्य लमादेशः लमक:-ऋषिविशेषः । क्षुदृपी संपेषे, अस्य क्षुल्लादेशश्च, क्षुल्लकं-दभ्रम् , क्षुधं लातीति वा क्षुल्लः, क्षुल्ल एव क्षुल्लक इति वा । वट वेष्टने, अस्यावोऽन्तश्च, वटवक:-तणपञ्जः। आङ पूर्वात ढोकतेडिच्च, आढकंमानम् । आदिग्रहणाद वहत्तन्त्रात. कला आपिबन्तीति-कलापकाः शास्त्राणि । कथण वाक्यप्रबन्धे, कथयतीति-कथकः-तोटकाख्यायिकादीनां वर्णयिता । एवम्-उपक चम्पक-फलहकादयोऽपि ।।३३।।
शलि-बलि-पति-वृति-नभि-पटि-तटि-तडि-गडि-भन्दि-बन्दि-मन्दि-नमि-कु-दु
पू-मनि-खजिभ्य आकः ॥ ३४ ॥ एभ्य आकः प्रत्ययो भवति । पल फल शल गतौ, शलि चलने च वा, शलाकाएषणी, पूरणरेखा, छूतोपकरणं, सूची च । बल प्राणन-धान्यावरोधयो:, बलाका-जल-चरी शकुनिः । पत्लु गतौ, पताका-वैजयन्ती। वृतूङ वर्तने, वर्ताका-शकुनिजातिः । णभच् हिंसायाम्, नभाकः-चक्रवाकजातिः, तमः, काकश्च । पट गतो, पटाका-वैजयन्ती, पक्षिजातिश्च । तट ऊच्छाये, तटाकं-सरः । तडण आघाते, तडाक-तदेव । गड सेचने, गडाक: