________________
सूत्र-२७-३० ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
[ ३४५
द-क्र-नृ-सृ-भू-धू-वृ-मृ-स्तु-कु-क्षु-लचि-चरि-चटि-कटि-कण्टि-चणि-चषि-फलि-वमि-तम्यवि-देवि-बन्धि-कनि-जनि-मशि-शारि-कुरि-वृति-वल्लिमल्लिसल्लयलिभ्योऽकः ॥२०॥
एभ्योऽकः प्रत्ययो भवति । दृश् विदारणे, दरक:-भीरुः । कृत् विक्षेपे, करकःजलभाजनम् , कमण्डलुश्च; करकाः-वर्षपाषाणः । नृश् नये, नरकः-निरयः । सृ गतौ, सरको-मद्यविशेषः । कसभाजनविशेषश्च, सरका-मधुपानवारः। टुडुभृगक पोषणे च, भरक:-गोण्यादि: घृङ अवध्वंसने, घरक:-सुवर्णोन्माननियुक्तः । वृगट वरणे, वरकः वधूजानि-सहायः वाजसनेयभेदश्च । मृत् प्राणत्यागे, मरकः-जनोपद्रवः । ष्टुगा स्तुती, स्तबकः-पुष्पगुच्छः । कुंक शब्दे, कवकम्-अभक्ष्यद्रव्यविशेषः । टुक्षुक शब्दे, क्षवक:-राजसषपः। लघुङ गो, लङ्घक:-रङ्गोपजीवी । चर भक्षणे च, चरकः-मुनिः। चटण भेदे: चटकः-पक्षी। कटे वर्षाऽऽवरणयो:. कटकः-वलयः। कटु गतौ, कण्टक:-तरुरोम । चण शब्दे, चणक:-मुनिः, धान्यविशेषश्च । चषी भक्षणे, चषक:-पानभाजनम् । फल निष्पत्ती, फलक:-खेटकम् । टुवम् उगिरणे, वमकः-कर्मकरः । तम्च् काङक्षायाम् , तमक:व्याधिः, क्रोधश्च । अव रक्षणादौ, अवका-शैबलम् । देवङ देवने, देवका-अप्सराः, देविका-नदी । बन्धंश् बन्धने, बन्धकः-चारकपाल: । कनै दीप्त्यादिषु, कनक-सुवर्णम् । जनैचि प्रादुर्भावे, जनकः-सीतापिता । मश रोषे च, मशक:-क्षद्रजन्तुः। क्षर संचलने ण्यन्त, क्षारकं-बालमुकुलम् । कुरत् शब्दे, कोरकं प्रौढमुकुलम् । वृतूङ वर्तने, वर्तका वर्तिका वा-शकनिः वल्लि सवरणे, वल्लकी-वीणा। मल्लि धारणे, मल्लक:-शराव:, मल्लिकापुष्पजातिः, दीपाघारश्च । सल्लः सौत्रः, सल्लकी-वृक्षः, सत्कृत्य लक्यते स्वाद्यते गजैरिति वा-सल्लकी । अली भूषणादिषु, अलक:-केशविन्यासः, अलका-पुरी ॥२७॥
को रु-रुण्टि-रण्टिभ्यः ।। २८ ॥
कुशब्दात् परेभ्य एभ्योऽकः प्रत्ययो भवति । रुक् शब्दे, कुरवकः-वृक्षः। रुटु स्तेये, कुरुण्टको-वर्णगुच्छः । रण्टि: प्राणहरणे सौत्रः, कुरण्टक:-स एव ।। २८ ।।
ध्रु-धून्दि-रुचि-तिलि-पुलि-कुलि-क्षिपि-क्षुपि-क्षुभि-लिखिभ्यः कित् ॥ २६ ॥
एभ्यः कित् अक: प्रत्ययो भवति । ६ स्थैर्य च, ध्र वक:-स्थिरः, ध्र वका-आवपनविशेषः । धुत् विधुनने, धुवक-धूननम्, धूवक:-प्रधानं, स्त्री धुवका-आवपनविशेषः । उन्दैप क्लेदने, उदकं-जलम् । रुचि अभिप्रीत्यां च, रुचक:-आभरणविशेषः। तिलत् स्नेहने, तिलकः-विशेषकः, वृक्षश्च । पुलण् समुच्छाये, पुल महत्त्वे वा, पुलकः-रोमाञ्चः । कुल बन्धु-संस्त्यानयोः, कुलकं-संयुक्तम् । क्षिपीत् प्रेरणे, क्षिपकः-वायुः, क्षिपका-आयुधम् । क्षुपः सौत्रो ह्रस्वीभावे, क्षुपकः-गुल्मः । क्षुभच् संचलने, क्षुभकः-पाञ्चालकः । लिखत् अक्षरविन्यासे, लिखक:-चित्रकरः ।। २९ ।।
छिदि-भिदि-पिटेर्वा ॥ ३०॥ एभ्योऽकः प्रत्ययो भवति, स च किद् वा भवति । छिपी द्वैधीकरणे, छिदकः