________________
३४. ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र-२-८
अः॥२॥
सर्वस्माद् धातोर्यथाप्रयोगमकारः, प्रत्ययो भवति । भवः, तरः, वरः, प्लवः, शयः, शरः, परः, करः, स्तवः, चरः, वदः ॥२॥
म्लेच्छीडेह स्वश्व वा ॥ ३ ॥
आभ्यामः प्रत्ययो भवति, दीर्घस्य च ह्रस्वो वा भवति । म्लेछ अव्यक्तायां वाचि, म्लिच्छ:-मूकः, म्लेच्छः-कुमनुष्यजातिः। ईडिक् स्तुती, इड इडश्च-देवताविशेषौ मेदिनी च ।। ३ ॥
नमः क्रमिः-गमि-शमि-खन्याकमिभ्यो डित् ॥ ४ ॥ ___ नत्रः परेभ्य एभ्यो डित्, अः प्रत्ययो भवति । क्रमू पादविक्षेपे, न कामति-नक्रःजलचरो ग्राहः । गम्लु गतौ, नगः-वृक्षः, पर्वतश्च । शमूच् उपशमे, नशः-यक्षः। खनूग अवदारणे, नखः-करजः, नास्य खमस्तीति वा-नख इत्यपि । कमूङ कान्तो, नाकः-स्वर्गः, नात्राकमस्तीति-नाक इत्यपि, नखादित्वात् "अन् स्वरे" (३-२-१२६) इत्यन् न भवति । डित्करणमन्त्यस्वरादिलोपार्थम् ।। ४ ।।
तुदादि-विषि-गुहिभ्यः कित् ॥ ५ ॥
तुदादिभ्यो विष-गुहिम्यां च कित् अः प्रत्ययो भवति । तुदः, नुदः क्षिपः, सुरः, बुधः, सिवः । सुरत् ऐश्वर्य-दीप्त्योः । तुदादिर्न धातुगणः. किं तर्हि ? भिन्न इति, तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः, शिवः, तुदादीनां यथासंभवं कारकविधिः । विष्लकी व्याप्तौ, वेवेष्टि-विष प्राणहरं द्रव्यम् गुहौग् संवरणे, गृहति-गुहः स्कन्दः, गुहा पर्वतैकदेशः ।।५।।
विन्देनलुक् च ॥ ६॥
विन्देः कित् अः प्रत्ययो भवति, तत्संनियोगे नस्य लुक् च । विदु अवयवे, विद:गोत्रकृद् वृक्षजातिश्च ॥६॥
कृगो द्वे च ॥७॥
करोतेः कित् अः प्रत्ययो भवति, अस्य च धातो रूपे भवतः । डुकृग् करणे, चक्रं रथाङ्गम्, आयुधं च ॥७॥
कनि-गदि-मनेः सरूपे ॥८॥
किदिति निवृत्तम्, एभ्योऽकारः प्रत्ययो भवति, एषां च सरूपे-समानरूपे द्वे उक्ती भवतः । कनैदीप्ति-कान्तिगतिषु, कनति-दीप्यते-कङ्कन:-कान्तः । गद व्यक्तायां वाचि, गदति-अव्यक्तं वदति, गद्यते-अव्यक्तं कथ्यते वा गद्गदः अव्यक्तवाक् , गद्गदम्-अव्यक्तं वचनम् । मनिच ज्ञाने, मन्मनः-अविस्पष्टवाक् । सरूपग्रहणं "व्यञ्जनस्यानादेलुक" (४-१-४४) इत्यादिकार्यनिवृत्त्यर्थम् ।।८॥