________________
सूत्र-६-१४ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३४१
ऋतष्टित् ।। ६॥
ऋकारान्ताद् धातोरकारः प्रत्ययो भवति, स च बहुलं टित्, धातोश्च सरूपे द्वे रूपे भवतः । दृश् विदारणे, दीर्यते भिद्यतेऽनेन श्रोत्रमिति-दर्दरः वाद्यविशेषः, पर्वतश्च, दर्दरी-सस्यलुण्टिः । कृत् विक्षेपे, कर्कर:-क्षुद्राश्मा, कर्करी-गलन्तिका । वृग्श् वरणे वर्वरःम्लेच्छजातिः, वर्वरी केशविशेषः । भृश् , भरणे, भर्भरः-छद्मवान् , भर्भरी-श्रीः। जृष्च जरसि, जर्जरः अदृढः, जर्जरी-स्त्री । झषच जरसि, झर्झर:-वाद्य-विशेषः झर्झरी-झल्लरिका। गत निगरणे. गर्गर:-रजर्षिः. गर्गरी-महाकम्भः। मश हिंसायाम , मर्मर:-शुष्कपत्रप्रकरः, तद्धर्माऽन्योऽपि, क्षोदासहिष्णुर्मर्मरो दानवश्च । 'मर्मरायां दूर्वायाम्' इत्यत्र टित्त्वेऽपि डीन भवति बहुलाधिकारात् । तत एव च ऋकारान्तादपि-धू सेचने, घर्घरः सघोषाव्यक्तवाक् घर्घरी-किङ्कणिका ॥९॥
किच्च ॥ १०॥
ऋकारान्ताद् घातोर्यथादर्शनं किदकारः प्रत्ययो भवति, घातोश्च सरूपे द्वे रूपे भवतः । मृश् हिंसायाम् , मूर्यतेऽनेनेति-मुर्मुर:-ज्वलदङ्गारचूर्णम् । पृश् पालन-पूरणयोः, पूर्यते जलाघातेन-पुपुर:-फेनः । तृ प्लवन तरणयोः,तीर्यतेऽनेनास्मिन् वा-तितिरः-संक्रमः । भृश् भर्जने च, भूर्यते-संचीयते-भुभुरः संचयः । शृश् हिंसायाम् , शीर्यते समन्तात्-शिशिरःपुजः ।। १० ॥
पृ-पलिभ्यां टिव पिपू च पूर्वस्य ॥ ११ ॥
• आभ्यां टिदः प्रत्ययो भवति, अनयोश्च सरूपे द्वे रूपे भवतः, पूर्वस्य च स्थाने 'पिप्' इत्यादेशो भवति । पृश् पालन-पूरणयोः, पृणाति छायया-पिप्परी-वृक्ष-जातिः। पल् गतो, पलत्यातुरं-पिप्पली-औषधजातिः । टित्करणं यर्थम् ॥ ११ ॥
क्रमि-मथिभ्यां चन्-मनौ च ॥१२॥
आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य च स्थाने यथासंख्यं 'चन् मन्' इत्यादेशौ भवतः । क्रम पादविक्षेपे, कामति सुखमनेनास्मिन् वा-चङक्रमः-संक्रमः। मथे विलोडने, मथति चित्तं रागिणां-मन्मथः-कामः ॥ १२ ।।
गमेज॑म् च वा ॥ १३ ॥
गमेरः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य च 'जम्' इत्यादेशो वा भवति । गम्ल गतौ, गच्छति-पादविहरणं करोति-जङ्गमः-चरः, गच्छत्यमाध्यस्थ्यमिति-गङ्गमः-चपलः ।। १३ ।।
अदुपान्त्य-ऋद्भ्यामश्चान्ते ॥ १४ ॥
अकारोपान्त्याद् ऋकारान्ताच्च धातोरः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्तोऽकारो भवति । पल फल शल गतौ, शलशलः । सल गतौ । सलसलः। हल