________________
३३० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६५-६८
तेन-करणपूर्वाद्धिसार्थादपि हन्तेरनेनंव णम्-अस्युपघातमरीन् हन्ति, शरोपघातं मृगान् हन्ति, तथा च सति नित्यसमासस्तस्यैव धातोरनुप्रयोगश्च सिध्यति ।।६४।।
न्या० स०-करणेभ्य:-अनेनैव णमिति 'हिसार्थादेकाप्यात्' ५-४-७४ इत्यनेन । नित्यसमास इति-हिसार्थादित्यनेन तु प्रत्यये 'तृतीयोक्तं वा' ३-१-५० इति वा स्यात् ।
स्व-स्नेहनार्थात् पुष-पिषः ॥ ५. ४. ६५ ॥
प्रात्मा आत्मीयं ज्ञातिर्धनं च स्वम्, स्निह्यते-सिच्यते येनोवकाविना तत् स्नेहनम्, स्वार्थात् स्नेहनार्थाच्च करणवाचिनः पराद् यथासंख्यं पुषः पिषश्च तस्यैव धातोः संवन्धे सति णम् वा भवति ।
स्वपोषं पुष्णाति पुष्यति पोषति वा, एवम्-आत्मपोषं, गोपोषं, महिषीपोषं, पितृपोषं, मातृपोषं, धनपोषं, रेपोषम्, स्वादिभिः पुष्णातीत्याद्यर्थः । स्नेहनार्थात-उदपेषं पिनष्टि, एवं-घृतपेषं, तैलपेषं, क्षीरपेषम्, उदकादिना पिनष्टोत्यर्थः ।।६५।।
हस्तार्थाद ग्रह-वर्ति वृतः ॥ ५. ४. ६६ ॥
हस्तार्थात् करणवाचिन: शब्दात् परेभ्यो ग्रह-वति-वृद्भयस्तस्यैव धातोः संबन्धे सति णम् वा भवति । हस्तग्राहं गृह्णाति, एवं-करप्राहम्, पाणिग्राहम हस्तेन गृह्णातीत्यर्थः । वति-वृत इति वर्ततेय॑न्तस्याण्यन्तस्य च ग्रहणम् ।
__ हस्तवतं वर्तयति, करवर्तम् , पाणिवर्तम्। हस्तेन वर्तयतीत्यर्थः । हस्तवत वर्तते, करवर्तम्, पाणिवर्तम्; हस्तेन वर्तत इत्यर्थः । अण्यन्तान्नेच्छन्त्येके ॥६६॥
बन्धेर्नाम्नि ।। ५. ४.६७ ॥
बन्धेरिति प्रकृति मविशेषणं च । बन्धेर्बन्ध्यर्थस्य बन्धनस्य यन्नाम-संज्ञा तद्विषयात् करणवाचिनः पराद् बन्धेर्षातोस्तस्यैव धातोः संबन्धे सति णम् वा भवति ।
कौञ्चबन्ध बद्धः, मर्कटबन्धः बद्धः, मयूरिकाबन्धं बद्धः, गोबन्धं बद्धः, महिषीबन्धं बद्धः, अट्टालिकाबन्धं बद्धः, चण्डालिकाबन्धं बद्धः, कौश्चादीनि बन्धनामधेयानि, क्रौञ्चाद्याकारो बन्धः क्रौञ्चादिरित्युच्यते, तेन बन्धेन बद्ध इत्यर्थः । केचित तु उपपदप्रकृतिप्रत्ययसमुदायस्य क्रौञ्चबन्धमित्यादेः संज्ञात्व मन्यन्ते, व्युत्पत्ति च क्रौञ्चेन क्रौञ्चाय क्रौञ्चाद वा बन्धनमित्यादि यथाकथंचित् कुर्वन्ति, तन्मतसंग्रहार्थ नाम्नीति प्रत्ययान्तोपाधित्वेन व्याख्येयम् ।।६७॥
__ न्या० स०-बन्धेर्नाम्नि-बन्धिरिति यदा प्रकृतिस्तदा स्वरूपे यदा तु नामविशेषणं तदाऽर्थे इ: प्रत्ययः । प्रत्ययान्तोपाधित्वेनेति-प्रत्ययान्तं चेन्नाम भवतीत्यर्थः ।
आधारात् ।। ५. ४.६८ ॥