________________
पाद,-४ सूत्र-६९-७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३३१
आधारवाचिन: पराद् बन्धेस्तस्यैव धातोः संबन्धे णम् वा भवति । चक्रबन्धं बद्धः, चारकबन्धं बद्धः, कूटबन्धं बद्धः, गुप्तिबन्धं बद्धः; चक्रादिषु बद्ध इत्यर्थः । 'ग्रामे बद्धः, हस्ते बद्धः' इति बहुलाधिकारान्न भवति ॥६॥
न्या० स०-आधाराव-बहुलाधिकारान्न भवतीति-ग्रामबन्धं बद्ध इत्यादि न भवतीत्यर्थः ग्रामे बन्धं बद्ध इति तु घत्रि भवत्येव । आधारादित्यनेन णमि डस्युक्तत्वात् समासः स्यात्, णम् च बाहुलकान्नेष्यते ।
कर्तीव-पुरुषान्नश-वहः ५. ४.६१ ॥
कर्तृवाचिभ्यां जीव-पुरुषाभ्यां पराभ्यां यथासंख्यं नशि-वहिभ्यां तस्यैव धातोः संबन्धे सति णम् वा भवति ।
. जीवनाशं नश्यति, जीवन् नश्यतीत्यर्थः; पुरुषवाहं वहति, पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः । कर्तु रिति किम् ? जीवेन नश्यति, पुरुषं वहति ।।६६॥
न्या० स० कर्तु:-जीवनाशमिति-जीवतीत्यच् , तस्य कर्निशनम् । पुरुषः प्रेष्यो भूत्वेति-पृणाति प्रेषणमित्यत्र पुरुषः क्रियाशब्दः प्रेष्यपर्यायः, अनेकार्थत्वाद् धातूनाम् ।
जीवेन नश्यतीति-इदमर्थकथनं प्रयोगस्तु अस्मिन्नर्थे जीवनाशं नश्यतीत्यादि न भवति, जीवेन नाशं घनन्तं नश्यतीति भवति न तु जीवनाशम् । पुरुषं वहतीति-पुरुषस्य वाहमिति तु भवति, न तु पुरुषवाहमिति ।
ऊर्ध्वात् पूः-शुषः ।। ५. ४. ७० ॥
कर्तृवाचिन ऊर्ध्वशब्दात परात् पूरः शुषश्च तस्यैव धातोः संबन्धे सति णम् वा भवति । पूरीत्यनिर्देशात् पूर्दैवादिको, न चौरादिकः । ऊर्ध्वपूरं पूर्यते, ऊर्ध्वः पूर्यत इत्यर्थः। ऊर्ध्वशोषं शुष्यति, उर्ध्वः शुष्यतीत्यर्थः ।।७०॥
व्याप्याच्चेवात् ।। ५. ४. ७१ ॥
व्याप्यात. कर्मणश्चकारात् कतुश्चेवात्इवार्थादुपमानार्थात् पराद् धातोस्तस्यैव धातोः संबन्धे सति णम् वा भवति ।
सुवर्णनिधायं निहितः, सुवर्णमिव निहित इत्यर्थः । एवं रत्ननिधायम् , घृतनिधायम् । शाकक्लेशं क्लिष्टः, ओदनपाचं पक्वः । कर्तु:-काकनाशं नष्टः, काक इव नष्ट इत्यर्थः; एवं-जमालिनाशं नष्टः; अभ्रविलायं विलोनः, अभ्रमिव विलीन इत्यर्थः ॥ ७१।।
न्या० स०-व्याप्याच्चेवात-जमालिनाशमिति-जमतीत्यच , जमं भोजनकारक अलति वारयति इत्येवंशीलः तदा 'अजातेः शीले' ५-१-१५४ णिन् , अलिरिव वा तत्त्वपुष्पैकदेश चुम्बनात् , जमश्चासावलिश्च तस्येव नशनम् ।
उपात् किरो लवने ॥ ५. ४. ७२ ॥