________________
पाद-४, सूत्र-६१-६४ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३२९
शुष्कपेषं पेष्टव्यः, शुष्कपेषं पिष्यते, क्तादिभिरूक्तेऽपि व्याप्ये तदुपपदताऽस्त्येव । प्रयोगानुप्रयोगक्रिययोरेक्यात तुल्यकर्तृकत्वं प्राक्कालत्वं च नास्तीत्यत्र प्रकरणे पक्षे क्त्वा न भवति । घनादय एव तु भवन्ति-शुष्कस्य पेषं पिनष्टि, सामान्यविशेषभावविवक्षया च धातुसंबन्धः । यदाहुः-सामान्यपुषेरवयवपुषिः कर्म भवतीति । कश्चित् तु 'सामान्यविशेषविवक्षयाऽत्रापि क्रियाभेदोऽस्तीति तुल्यकर्तृकत्वं प्राक्कालत्वं च, तेन-क्त्वाऽपि, निमूलं कषित्वा कषति' इत्यादि मन्यते ।।६०॥
__ न्या० स०-शुष्क चूर्ण-शुष्कपेषामित्यादि-क्रियाविशेषणेभ्य: 'अव्ययस्य' ३-१-२१ इत्यमो लुप् । तदुपपदताऽस्त्येवेति-शुष्कलक्षणविशेषकर्मोपपदता।
__सामान्यविशेषभावविवक्षयेति-अन्यथा प्रयोगो हि योगपद्येन नेष्यते इत्यर्थाभेदात्तस्यैव धातोरनुप्रयोगो न स्यात् ।
सामान्यपुषेरिति-तैः 'स्वस्नेहन' ५-४-६५ इति सूत्रे एतदुक्तमत्र तु प्रकरणात् कथितमिति पुषेरिति संशोध्य पिषेरिति न कर्त्तव्यं, सामान्यपिषेरनुप्रयोगे पिनष्टीत्यत्र ।
___ कर्म भवतीति-ननु शुष्कपेषमित्यादि क्रियाविशेषणं तत्कथं कर्म भवति ? सत्यं, तन्मते क्रियाविशेषणस्यापि कर्मता ।
कृग-ग्रहोऽकृत-जीवात् ।। ५. ४. ६१॥
'अकृत जीव' इत्येताम्यां व्याप्याभ्यां पराभ्यां यथासंख्यं करोति-गृह्णातिभ्यां तस्यैव धातोः संबन्धे सति णम् वा भवति ।
प्रकृतकारं करोति, अकृतं करोतीत्यर्थः । जीवनाहं गृह्णाति, जीवन्तं गृह्णातीत्यर्थः ।६१॥ निमूलात् कषः ॥ ५. ४. ६२ ॥
निमूला व्याप्यात् पराद कषस्तस्यैव धातोः संबन्धे सति णम् वा भवति । निमूलमित्यत्रात्ययेऽव्ययीभावः, निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा ।
निमूलकाषं कषति, निमूलं कषतीत्यर्थः, पक्षे-निमूलस्य का कषति ॥६२॥ हनश्च समूलात् ।। ५. ४.६३ ॥
समूलशब्दाद व्याप्यात् परावन्तेः कषेश्च तस्यैव धातोः संबन्धे सति णम् वा भवति । समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा ।
समूलधातं हन्ति, समूलं हन्तीत्यर्थः । समूलकाषं कषति, समूलं कषतीत्यर्थः ।६३। करणेभ्यः ॥ ५, ४. ६४ ॥
करणात् कारकात् पराद्धन्तेस्तस्यैव धातोः संबन्धे सति णम् वा भवति । पाणिघातं कुडयमाहन्ति, पादघातं शिलां हन्ति, पाणिना पादेन वा हन्तोत्यर्थः । बहुवचनं व्याप्त्यर्थम्,