________________
वृहद्वृत्ति - लघुन्यास संवलिते [ पाद- ४, सूत्र - ५८-६०
rtores वृष्टो मेघः, गोष्पदपूरं वृष्टो मेघः, सीताप्रं सीतापूरं वृष्टो मेघः, यावता गोष्पदादिपूरणा भवति तावद् वृष्ट इत्यर्थः । अस्येति ग्रहणादुपपदस्य न भवति - मूषकबिलपूरं दृष्टो मेघः । गोष्पदप्रमिति प्रातेर्धातोः "आतो डोऽह्वावाम: " ( ५-१-७६ ) इति डेन, गोष्पदपूर मित्यणा च क्रियाविशेषणत्वे सिध्यति, एवं सर्वे णमन्ताः प्रयोगाः; तत्र
विधानमव्ययत्वेन तरामाद्यर्थमनुस्वारश्रवणार्थं च तेन 'गोष्पदप्रतराम, गोष्पदप्रतमाम्, गोष्पदरूपं गोष्पद-कल्पं देश्यं देशीयम्, गोष्पदपूरं तरां तमां रूप कल्पं देश्यं देशीयम्' इत्यादि सिद्धं भवति, अन्यथा हि गोष्पदप्रतरं गोष्पदपूरतरमित्याद्येव स्यात् । 'गोष्पदप्रेण, गोष्पदप्रभवति, गोष्पदपूरेण, गोष्पदपूरीभवति' इत्यादिप्रयोगास्तु ड घञादि प्रत्ययान्ता
द्रष्टव्याः ॥ ५७ ॥
३२८ ]
न्या० स० - वृष्टिमाने-मानशब्दः करणसाधनो भावसाधनो वा ततः कर्म्मषष्ठी समासः । क्रियाविशेषणत्व इति स्थिते तु न क्रियाविशेषणत्वं भावसाधनत्वेन सामानाधिकरण्याभावात्, गोष्पदं प्रातीत्यादी कर्तृ साधनत्वात् सामानाधिकरण्ये सति क्रियाविशेषणत्वमुपपद्यते ।
एवं सर्वे णमन्ता इति एतत् सूत्रोपात्ताः सीताप्रमित्यादय: ।
चेलार्थात् क्नोपेः ।। ५ ४.५८ ॥
चेलार्थात् व्याप्यात् परात् क्नोपयतेस्तुल्यकर्तृ केऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संबन्धे णम् वा भवति ।
चेलक्नोपं वृष्टो मेघः, वस्त्रक्नोपम्, बसनक्नोपम्; यावता चेलं क्नूयते - आर्द्राभवति तावद् वृष्ट इत्यर्थः । अर्थग्रहणादत्र स्वरूप- पर्याय विशेषाणां त्रयाणामपि ग्रहणम्, तेन- 'पटिकावनोपम्, कम्बलक्नोपम्' इत्यादौ चेलविशेषादपि भवति । अयमप्यप्राक्काले विधिः ।। ५८ ।।
गात्र- पुरुषात् स्नः ।। ५. ४, ५१ ॥
गात्र- पुरुषाभ्यां व्याप्याभ्यां परादन्तर्भू तथ्यर्थात् स्नातेस्तुल्यकर्तृ केऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संबन्धे णम् वा भवति
1
गात्रस्नायं वृष्टो मेघः, पुरुषस्नायं वृष्टो मेघः; यावता गात्रं पुरुषश्व स्नाप्यते तावद् वृष्ट इत्यर्थः । इदं केचिदेवेच्छन्ति ॥ ५६ ॥
न्या० स०- गात्र पुरुष - अन्तर्भू तण्यर्थादिति - एतेन उपपदयोः कर्मत्वमानीतम् ।
सति ।
शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ।। ५. ४. ६० ॥
शुष्क- चूर्ण-रुक्षेभ्यो व्याप्येभ्यः परात् विषेर्णम् वा भवति, तस्यैव धातोः संबन्धे ordi fraft, शुष्कं पिनष्टीत्यर्थः एवं चूर्णपेषम्; रूक्षपेषम् ; शुष्कपेषं पिष्टः,