________________
पाद-४, सूत्र-५५-५७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३२७
कार्यविशिष्टाद् व्याप्यात् परेभ्यस्तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानेभ्यो विदिभ्यो दृशेश्च धातोः संबन्धे णम् वा भवति । विद्यतेरकर्मकत्वात् तद्वस्त्रियो विदयो गृह्यन्ते।
अतिथिवेदं भोजयति, यं यमतिथि जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः । कन्यादर्श वरयति, यां यां कन्यां पश्यति तां तां सर्वा वरयति । बहुवचनात् त्रयाणामपि विदीनां ग्रहणम्, अन्यथा * निरनुबन्धग्रहणे न सानुबन्धकस्य * इत्युपतिष्ठेत । कात्स्य॑ इति किम् ? अतिथि विदित्वा भोजयति, कन्यां दृष्ट्वा वरयति ॥५४॥
__ न्या० स०-विदृग्भ्यः-अतिथिवेदमिति-अतिथि विदित्वा वित्त्वा वा । वरयतीतिबरण ईप्सायाम् । न सानुबन्धकस्येति-ततो विद्लुतीत्यस्य न स्यात् ।
यावतो विन्द-जीवः॥ ५. ४, ५५ ॥
काय॑विशिष्टाद् व्याप्यात यावच्छन्दात् पराभ्यां विन्द-जीविभ्यामेककर्तृ केऽर्थे वर्तमानाभ्यां धातोः संबन्धे णम् वा भवति । विन्वेति शनिदेशाल्लाभार्थस्य ग्रहणम् ।
यावद्वेदं भुक्ते, यावल्लमते तावद भुङ्क्ते, इत्यर्थः । यावज्जीवमधीते, यावज्जीवति तावदधीते इत्यर्थः । जीवेः पूर्वकालासंभवाद् अपूर्वकाल एव विधिः ॥५५॥
न्या० स०-यावतो-जीवेः पूर्वकालासंभवादिति-विशेषणयावत्योगे जीवनादुत्तरकालमध्ययनस्यासंभवात् द्वयोरपि युगपदुपपत्तौ जीवतेरपूर्वकाल एव प्रत्ययः, एतच्चोपलक्षणं विदेरप्यपूर्वकाल एव, तथाहि-भोजनक्रियायामारब्धायामपरिसमाप्तायां परिवेषणादिना भोजनाहलाभस्य समानकालत्वात् यद्यपि भोजनादौ भोजनार्हद्रव्यलाभस्य प्राक्कालत्वमपि संभवति तथापि न विवक्षितमिति स्पष्टतया नोक्तम, अत एव पक्षे क्त्वाप्रत्ययो न दक्षितः, तस्य प्राक्काल एव विधानात् ।
चर्मोदरात् पूरेः॥५. ४. ५६ ॥
व्याप्याभ्यां चर्मोदरशम्दाभ्यां परादेक-कर्तृ केऽर्थे वर्तमानात् पूरयतेर्धातोः संबन्धे णम् वा भवति । चर्मपूरमास्ते, चर्म पूरयित्वाऽऽस्ते इत्यर्थः । उदरपूर शेते, उदरं पूरयित्वा शेते इत्यर्थः ॥५६॥
न्या. स-चर्मोदरात-पूरयतेतिोरिति-पूरेरिति णिगि तदभावे च निर्देशस्य समानत्वेऽप्यणिगन्तस्याऽकर्मकत्वात् चर्मोदराभ्यां कर्मभ्यां संबन्धानुपपत्तेः "पूरैचि आप्यायने" इत्यस्य णिगन्तस्यैव ग्रहणं, तस्यैव सकर्मकत्वादित्याह-पूरयतेरित्यादि।
चर्मपूरमास्ते इत्यादि-यावत् पूरणं न संपन्नं तावदासनं शयनं च न करोति इति पूरणस्य प्राक्कालता, अतः पर्यायः क्त्वान्तो दशितः ।
वृष्टिमान ऊलुक चास्य वा ।। ५. ४. ५७ ॥
व्याप्यात परात् पूरयतेर्धातो: संबन्धे णम् वा भवति, प्रस्य च पूरयतेस्कारस्य लुग वा भवति, समुदायेन चेद् वृष्टिमानं-वृष्टीयता गम्यते ।