SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र २६-३२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३१७ यद्यपि वृत्तौ व्याख्यानेनापि सिध्यति तथापि सूत्रे एषामुपादानं सुखावसेयं भवतीति । तत्वज्ञानमित्यादि-तत्वज्ञानं कर्मतापन्नं नोऽस्मभ्यं प्रसादपूर्वकं दधुः प्रसीदेयुः गुरुपादाः, अथवा तत्वज्ञानरूपक्रियाविशेषणमिदम् नोऽस्माकं प्रसीदेयुः । प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यो ।। ५. ४. २१ ॥ प्रेषादिविशिष्टे कर्नादावर्थे धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्तिर्भवति । न्यत्कारपूविका प्रेरणा-प्रेषः, अनुज्ञा-कामचारानुमतिः, अतिसर्ग इति यावत् । अवसर:प्राप्तकालता निमित्तभूतकालोपनतिः। भवता खलु कटः कार्यः कर्तव्यः करणीयः कृत्यः, भवान् कटं करोतु, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे । यद्यपि कृत्याः सामान्येन भाव-कर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या बाध्येरनिति पुनविधीयन्ते । अनुज्ञायां केचित् सप्तम्येवेत्याहुः-अतिसृष्टो भवान् ग्रामं गच्छेत् ।।२९ । न्या० स०-प्रेषानुज्ञावसरे-कामचारानुमतिरिति-केनचित् पुंसा कश्चित् पृष्टो यदुताहं कटं करोमि ततस्तेन कटमयं करोतु मा वेति मनसिकृत्वा एवमुच्यते कुरु इति, ततः स्वेच्छाप्रच्छकस्य कदाचिदेवमुच्यतेऽवश्यं कुरु, ततो नियोगः; प्रच्छकस्यैवंविधानुज्ञाऽत्र सूत्रे न गृह्यते । सप्तमी चोर्ध्वमौहर्तिके ॥ ५. ४. ३० ॥ . ऊर्ध्व मुहूर्तादुपरि मुहूर्तस्य भवोऽर्थ ऊर्ध्वमौहूर्तिकः, तस्मिन् वर्तमानाद् धातो: प्रैषादिषु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च भवन्ति । ऊवं मुहूर्ताव कटं कुर्याद् भवान् , कार्यः कर्तव्यः करणीयः कृत्यः कटो भवता, कटं करोतु भवान् , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥३०॥ न्या० स०-सप्तमी चोर्ध्व-ऊर्ध्वमोहूत्तिक इति-कालादन्यत्र 'वर्षाकालेभ्यः' ६-३.८० इति न सिध्यति इत्यध्यात्मादिभ्य इकण् । स्मे पञ्चमी ॥ ५. ४. ३१ ॥ स्मशब्द उपपदे प्रेषादिषु गम्यमानेषु उर्ध्वमौहूतिकेऽर्थे वर्तमानाद् धातोः पञ्चमी भवति । कृत्यानां सप्तम्याश्चापवादः । ऊर्ध्व मुहूर्ताद् भवान् कटं करोतु स्म, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे इति ॥३१॥ न्या० स० स्मे पञ्चमी-स्मशब्दः स्पष्टायः । अधीष्टौ ॥ ५. ४. ३२॥ ऊर्ध्वमौहूतिक इति निवृत्तम्, पृथग्योगात् । स्म उपपवेधीष्टावध्येषणायां गम्य
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy