________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-२७-२८
वेति निवृत्तम् । काम इच्छा, तस्योक्तिः प्रवेदनं तस्यां गम्यमानायां धातो: सप्तमी भवति, अकच्चिति-न चेत् कच्चिच्छब्दः प्रयुज्यते । सर्वविभक्त्यपवादः।
कामो मे भुञ्जीत भवान् , इच्छा मे, अभिप्रायो मे, श्रद्धा मे, अभिलाषो मे, अधीयोत भवान् । अकच्चितीति किम् ? कच्चिज्जीवति मे माता । अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः-कामो मे भोक्ष्यत भवान् ।२६।
न्या० स०-कामोक्ता-वेति निवृत्तमिति-कामप्रवेदने विभक्त्यन्त र प्रयोगादर्शनात् । इच्छार्थे सप्तमी-पञ्चम्यौ ॥ ५. ४. २७॥
इच्छार्थे धातावुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमी-पञ्चम्यौ भवतः । सर्वविभक्त्यपवादो।
इच्छामि भुञ्जीत भवान्, इच्छामि भुङ्क्तां भवान् , कामये, प्रार्थये, अभिलाषामि, वश्मि, अधीयोत भवान्, अधीतां भवान् । कामोक्तावित्येव ? इच्छया इच्छतः, कामयमानः कामयमानस्य भुङ्क्ते, नात्र प्रयोक्तुः कामोक्तिः । अत्र सत्यपि सप्तमोनिमित्ते इच्छार्थ उपपदे कामोक्तो क्रियातिपतनस्यासामर्थ्येनासंभवात् क्रियातिप्रत्तिर्न भवति । केचित तु "सप्तम्युताऽप्योढेि" (५-४-२१) इत्यत आरम्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति न विभक्त्यन्तरसहितायास्तत्रैव क्रियातिपतने क्रियातिपत्तिर्भवतीति मन्यन्ते ॥२७॥
न्या० स०-इच्छार्थे सप्तमो-असामर्थ्येनासंभवादिति-कामप्रवेदनस्य क्रियातिपतनस्य च परस्पर विरुद्धत्वात् संबन्धाभावेनेत्यर्थः ।
विधि-निमन्त्रणा-ऽऽमन्त्रणा-धीष्ट-संप्रश्न-प्रार्थने ॥५. ४. २८ ॥
विध्यादिविशिष्टेषु कर्तृ-कर्म-भावेषु प्रत्ययार्थेषु धातोः सप्तमी-पञ्चम्यौ भवतः, सर्वप्रत्ययापवादौ । विधिरप्राप्ते नियोगः, क्रियायां प्रेरणेति यावत; अज्ञातज्ञापनमित्येके ।
कटं कुर्यात् करोतु भवान् , प्राणिनो न हिस्यात् न हिनस्तु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम्, इच्छामन्तरेणापि नियोगतः कर्तव्यमिति यावत् । द्विसंध्यमावश्यकं कुर्यात् करोतु भवान्, सामायिकमधीयोत अधीतां भवान् । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् । इहासीत आस्तां भवान, इह शयोत शेतां भवान् , यदि रोचते । प्रेरणव सत्कारपूविकाऽधीष्टम् अध्येषणम् । तत्त्वज्ञानं नः प्रसीदेयुः प्रसीदन्तु गुरुपादाः, व्रतं रक्षेत् रक्षतु भवान् । संप्रश्नः संप्रधारणा। किन्नु खलु भो व्याकरणमधीयीय अध्ययै, उत सिद्धान्तमधीयोय अध्ययै । प्रार्थनं याच्या । प्रार्थना मे व्याकरणमधीयीय अध्यय, तर्कमधीयीय अध्ययै ॥२८।।
न्या० स०-विधिनिमन्त्रणा-नन्वत्र निमन्त्रणादीनां किमर्थमुपादानं विधिः क्रियायां प्रेरणेति यावदित्यूक्तं ततः सा प्रेरणा क्वचिनिमन्त्रणरूपा क्वचिदामन्त्रणरूपेति यथा प्रयोक्तृव्यापार इत्यत्र व्यापार : प्रेषणाध्येषणादिरूप इति विधिग्रहणे नैव सिद्धम् ? उच्यते,