________________
बृहद्वृत्ति - लघुन्यास संवलिते [ पाद- ४, सूत्र - ३३-३५
३१८ ]
मानायां धातोः पश्वमी भवति । सप्तम्यपवादः ।
अङ्ग स्म विद्वन्नणुव्रतानि रक्ष, शिक्षा: प्रतिपद्यस्व ||३२||
न्या० स०- प्रधष्टौ - पृथग्योगादिति-स्मेऽधीष्टौ च पञ्चमीत्यकरणात् । सप्तम्यपवाद इति - अधीष्टावर्थे 'विधिनिमन्त्रण' ५-४-२८ इति प्राप्तायाः । अङ्गशब्द: प्रकाशे कोमलामन्त्रणे वा ।
काल-वेला-समये
तुम् वाऽवसरे ॥ ५. ४. ३३॥
काल-बेला समयशब्देषूपपदेष्ववसरे गम्यमाने धातोस्तुम् प्रत्ययो वा भवति । कालो भोक्तुम्, वेला भोक्तुम्, समयो भोक्तुम् । वावचनाद् यथाप्राप्तं च- कालो भोक्तव्यस्य । 'ऊर्ध्वं मुहूर्तात् कालो भोक्तुम, ऊर्ध्वं मुहूर्ताद् भोक्तु स्म काल:, अङ्ग स्म 'राजन् ! भोक्तु काल' इत्येतेषु परत्वात् तुमेव । अवसर इति किम् ? काल: पचति भूतानि, कालोऽत्र द्रव्यं न त्ववसरः ||३३||
न्या० स०- कालवेला - कालो भोक्तुमिति - 'प्रेषानुज्ञा' ५-४-२९ इति प्राप्तेऽयं विकल्प इति भुज्यतां भोक्तव्यस्य चेति वाक्ये तुमि षष्ठ्येकवचनस्य 'अव्ययस्य' ३-२-७ इति लुप् । कालो भोक्तव्यस्येति - प्रेषादि सूत्रेण तव्य इति भुज्यतामिति वाक्यं, विकल्पपक्षे प्रषादीति प्रवर्त्तत इत्यत्र सूत्रे कालो भोजनस्येति वालितम् । परत्वातुमेवेति - उर्ध्वं मुहूर्तात् कालो भोक्तुमित्यादिप्रयोगत्रये । ननु तुम् विकल्पेन भवति तत्कथं तुमेवेत्युक्तम् ? उच्यते, - विकल्पेन तुमेव भवति नानडादयः, 'सप्तमी चोर्ध्व' ५ -३ - १२ 'स्मे पञ्चमी' ५-४-३१ इति 'अधीष्टो' ५-४-३२ इति च यथाक्रमं प्रवर्त्तत एव ।
सप्तमी यदि । ५ ४. ३४ ॥
यदि यच्छब्दप्रयोगे सति कालादिषूपपदेषु धातोः सप्तमी भवति । तुमोऽपवादः । कालो यदधीयीत भवान्, वेला यद् भुञ्जीत भवान्, समयो यच्छयीत मवान् । बहुलाधिकारात् 'कालो यदध्ययनस्य, वेला यद् भोजनस्य, समयो यच्छ्यनस्य' इत्याद्यपि भवति ||३४||
न्या० स० - सप्तमी यदि-इत्याद्यपि भवतीति यच्छब्दप्रयोगेऽनेन सप्तमी विहितेति अनट् न प्राप्नोति, बाहुलकात् तु सोऽपि भवतीत्यर्थः ।
शक्ताऽहें कृत्याश्च ॥ ५, ४. ३५ ॥
शक्ते च कर्तरि गम्यमाने धातोः कृत्याः सप्तमी च भवति ।
भवता खलु भारो वाह्य:, वोढव्यः, वहनीयः, उह्य ेत, भवान् भारं वहेत्; भवान् हि शक्तः । श्रर्ह भवता खलु कन्या वाह्या, वोढव्या, वहनीया, भवान् खलु कन्यां वहेत्; भवता खलु छेदसूत्रं वाह्यम, वोढव्यम्, वहनीयम्, भवान् खलु च्छेदसूत्रं वहेतु भवानेत