________________
पाद-४, सूत्र-३-५ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३०७
क्षिप्राऽऽशंसार्थयोर्भविष्यन्ती-सप्तम्यौ ।। ५. ४.३॥
क्षिप्रार्थ आशंसार्थे चोपपदे आशंस्येऽर्थे वर्तमानाद् धातोर्यथासंख्यं भविष्यन्तीसप्तम्यौ विभक्ती भवतः। भूतवच्चेत्यस्यापवादः।
उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आगन्ता, क्षिप्रमाशु त्वरितमरं शोघ्रमेते सिद्धान्तमध्येष्यामहे । क्षिप्रार्थे नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथा स्यादित्येवमर्थम । उपाध्यायश्चेच्छवः शीघ्रमागमिष्यति, एते श्वः क्षिप्रमध्येष्यामहे । आशंसाथै खल्वपि-उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति प्रागन्ता वा, आशंसेऽवकल्पये संभावये युक्तोऽधीयीय । द्वयोरुपपदयो: सप्तम्येव भवति शब्दतः परत्वात-प्राशंसे क्षिप्रमधीयीय ॥३॥
न्या० स०-क्षिप्राशंसा-भूतवच्चेत्यस्यापवाद इति-अथ क्षिप्रार्थे आशंसार्थे च उपपदे आशंस्ये एवार्थे वत्तमानाद् घातोर्भविष्यन्तीसप्तम्यौ विधीयेते तत्राशंस्यस्य भविष्यत्त्वात् सिद्धैव 'विधिनिमन्त्रणा' ५-४-२८ इति सप्तम्यपि प्रार्थनारूपत्वात् किमर्थमिदमुच्यते ? इत्याह-भूतवच्चेत्यादि-क्षिप्रार्थे न इतीति-ननु क्षिप्रार्थे न इति आशंसार्थे सप्तमी इति च पृथकसूत्रद्वयं क्रियतां किं क्षिप्रार्थे भविष्यन्ती विधानेन ? एवमपि कृते भविष्यन्ती सेत्स्यति, तथाहि-भूत वच्चेत्यनेन सामान्यभणनात् क्षिप्रार्थेऽक्षिप्रार्थे चोपपदे भूतवत्सद्वच्च प्राप्तानां प्रत्ययानां क्षिप्रार्थ नेत्यनेन निषेधे कृते पारिशेष्यात् स्वयमेव भविष्यन्ती भविष्यति कि तद्ग्रहणेनेत्याह-श्वस्तनीविषयेऽपीति-असति हि भविष्यन्तीग्रहणे यथा प्राप्तस्य भविष्यतप्रत्ययस्य प्रत्यज्जीवनं भवति । भविष्यतप्रत्ययश्च भविष्यदऽद्यतने भविष्यन्ती भविष्यदनद्यतने तु श्वस्तनी प्राप्नुयात्, इदानीं पुनर्भविष्यत्य द्यतनेऽनद्यतने च क्षिप्रार्थे उपपदे भविष्यन्त्येव न तु श्वस्तनी। द्वयोरुपपदयोरिति-क्षिप्राशंसार्थयोयुगपत् प्रयोगे क्षिप्रार्थोपपदनिबन्धना भविष्यन्ती आशंसार्थनिबन्धना सप्तमी वा भवतीत्याह-शब्दतः परत्वादिति ।
संभावने सिद्धवत् ॥ ५. ४. ४ ॥
हेतोः शक्तिश्रद्धानं-संभावनम्, तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्ध्वत् प्रत्यया भवन्ति ।
समये चेत प्रयत्नोऽभूव, उदभूवन विभूतयः । इषे चेन्माधवोऽवर्षोत, समपत्सत शालयः॥ जातश्चायं मुखेन्दुश्चेत्, भृकुटिप्रणयी पुनः ।
गतं च वसुदेवस्य, कुलं नामावशेषताम् ॥४॥ न्या० स०-संभावने-जातश्चायं गतं चेति-अजनि, जायते स्म, अगमत् , गच्छति स्मेति वाक्यं कार्य न तु गमिष्यति जनिष्यत इति तत्राप्यस्य सूत्रस्य प्रवर्तनात् ।
नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः ॥ ५. ४. ५ ॥