________________
३०८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६
प्रबन्धः सातत्यम्, आसत्तिः सामीप्यम्, तच्च कालतः, सजातीयेन कालेनाव्यवहितकालतेति यावत् । धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यमानायां धातोरनद्यतनविहितः प्रत्ययो न भवति। भूतानद्यतने मस्तनो भविष्यदनद्यतने च श्वस्तनी विहिता तयोः प्रतिषेधः।
यावज्जोवं भृशमन्नमदात, यावज्जीवं भृशमन्नं दत्तवान्, यावज्जीवं भृशमन्नं दास्यति; यावज्जीवं युक्तोऽध्यापिपत्, यावज्जीवं युक्तोऽध्यापयिष्यति । आसत्तौ खल्वपियेयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावतिष्ट, प्रवृत्तः । येयं पौर्णमास्यागामिनी प्रस्यां जिनमहः प्रतिष्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय । केचित् तु-अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति ।।५।।
न्या० स०-नानद्यतन:-न अद्यतनोऽनद्यतन इति कार्य, न तु न विद्यतेऽद्यतनो यत्रेति, यतो बहुव्रीहेयापकत्वात् परोक्षाया अपि निषेध: स्यात् , तत्राप्यद्यतनो नास्तीति कृत्वा । नञ्तत्पुरुषे तु सामान्येन कृते विशेषो नान्तर्भवति, सामान्यमध्ये विशेषाध्योगात् । तयोः प्रतिषेध इति-* सामान्यातिदेशे विशेषानतिदेश इति न्यायात सामान्यानद्यतनस्यैव प्रतिषेधो न विशेषानद्यतनस्य, तेन परोक्षाया न प्रतिषेधः ।
यावज्जीवमिति-यावन्तं कालं जीव्यते भावे 'यावतो विन्दजीव:' ५-४-५५ यावच्छब्दात् 'कालाध्वनो' २-२-४२ 'कालाध्व' २-२-२३ इति वा द्वितोया यावज्जीवं शब्दात्तु प्रथमासिः, यावज्जीवं यावद्वर्त्तते तावद्ददातीत्यर्थः ।
यथाप्राप्तस्याभ्यनुज्ञानायेति- द्वौ नौ प्रकृतार्थ गमयत * इति न्यायात् । ननु प्रबन्धासत्त्योरिति विधिसूत्रं कर्त्तव्यं विधिप्रतिषेधसंभवे हि विधेरेव ज्यायस्त्वात् , एवमपि ते अद्यतनी भविष्यन्ती सेत्स्यत:? नैवं, अद्यभवोऽद्यतनः, अनया व्युत्पत्त्या वत. मानापि स्यात् ।
प्रतिषेधमिच्छन्तीति-स्वमते तु सामान्यातिदेशे विशेषस्यानतिदेशात परोक्षादीनां न निषेधः, एवं च भूतानद्यतने अद्यतनीक्तप्रत्यययोविधिर्भविष्यदनद्यतने च भविष्यत्या एव ।
एष्यत्यवधौ देशस्यार्वाग्भागे ॥ ५. ४. ६ ।।
देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तत्र वर्तमानाद् धातोरनद्यतनविहितः प्रत्ययो न भवति । अप्रबन्धार्थमनासत्त्यर्थं च वचनम् । यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात श्वस्तन्या एव निषेधः ।
योऽयमध्वा गन्तव्य आ शत्रजयात तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे, द्विः सक्तून् पास्यामः । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात तस्य यदवरमधं (कौशाम्ब्याः) तत्रोदनं भोक्ष्यामहे । एष्यतीति किम् ? योऽयमध्वातिकान्त आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि, द्विः सक्तूनपिबाम।।
अवधाविति किम् ? योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र