________________
॥ अहम् ।। अथ पञ्चमाध्याय चतुर्थः पादः
सत्सामीप्ये सद्ध वा ॥ ५. ४. १॥
समीपमेव सामीप्यम्, सतो-वर्तमानस्य सामीप्ये- भूते भविष्यति चार्थे वर्तमानाद् धातोः सद्वद-वर्तमानवत् प्रत्यया वा भवन्ति । "सति" (५-२-१६) इति सूत्रादारभ्याऽऽपादपरिसमाप्तेविहिताः प्रत्यया भतभविष्यतोर्वा अतिविश्यन्ते ।
कदा चैत्रागतोऽसि ? अयमागच्छामि, आगच्छन्तमेव मां विद्धि । वावचनाद् यथाप्राप्तं च-प्रयमागमम, एषोऽस्म्यागतः। कदा मैत्र! गमिस्यसि ? एष गच्छामि, गच्छन्तमेव मां विद्धि, पक्षेएष गमिस्यामि, गन्ताऽस्मि, गमिष्यन्तमेव मां विद्धि । वत्करणस्य सादृश्यार्थत्वात् येनैव प्रकृत्युपपदोपाध्यादिना विशेषेण वर्तमाने विहितास्तेनैव विशेषेण भूत-भविष्यतोरपि भवन्ति-कदा भवान् सोमं पूतवान् पविष्यते वा? एषोऽस्मि पवमानः । कदा भावनिष्टवान् यक्ष्यते वा? एषोऽस्मि यजमानः । कटा भवान् कन्यामलंकृतवान् करिष्यते वा ? एषोऽस्म्यलंकरिष्णुरिति । सामोप्य इति किम् ? परदगच्छत्, वर्षण गमिष्यति ।।१।।
न्या० स०-सत्सामीप्ये-अतिदिश्यन्त इति-अतिक्रम्य निजं कालं दिश्यन्त इत्यर्थः। नन सत्सामीप्ये सति वेत्येतावदेव क्रियतां वर्तमाने ये प्रत्ययास्ते सत्सामीप्ये वा भवन्तीति सूत्रार्थे साध्य सिद्धिर्भविष्यति किं वत्करणेन ? इत्याह वत्करणस्येति-उपाध्यादिनेतिआदिशब्दात् कर्तृ विशेषेणापि। पवमान: यजमान इत्यत्र प्रकृतिविशेषः, अलंकरिष्णुरित्यत्र तु उपपदविशेषः शीलाद्युपाधिविशेषश्च ।
भूतवच्चाऽऽशंस्ये वा॥ ५.४.२॥
अनागतस्य प्रियस्यार्थस्याशंसनं प्राप्तुमिच्छा-प्राशंसा, तद्विषय प्राशंस्यः, तस्मिन्नर्थ वर्तमानाद् धातोभूतवच्चकारात् सद्वच्च प्रत्यया वा भवन्ति । आशंस्यस्य भविष्यत्वादयमतिदेशः । वाग्रहणाद् यथाप्राप्तं च।
उपाध्यायश्चेदागमत् , एते तर्कमध्यगीष्महि; उपाध्यायश्चेदागत:, एतैस्तर्कोऽ. धीतः: उपाध्यायश्चेदागच्छति, एते तर्कमधीमहे । पक्षे-उपाध्यायश्चेदागमिष्यति, एते तर्कमध्येष्यामहे; उपाध्यायश्चेदागन्ता, एते तर्कमध्येतास्महे । सामान्यस्यातिदेशे विशेषस्थानतिदेशात शस्तनो-परोक्षेन भवत: । आशंस्य इति किम? उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥२॥
न्या० स०-भूतवच्च-आगमदित्यत्र अध्यगीष्महीत्यत्र चाऽनेनैव भूतप्रत्यय: उभयत्रप्याशंस्यस्य विद्यमानत्वात् ।
विशेषस्यानतिदेशादिति-एतच्च व्याख्यानतो विशेष प्रतिपत्तिरिति न्यायात् ।