________________
पाद-३, सूत्र-१४१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३०५
दुःखेन शिष्यते-दुःशासनः, सुखेन शिष्यते-सुशासनः, ईषच्छासनः । एवं-दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः । प्रादन्त-दुरुत्थानं भवता, सुत्थानम्, ईषत्थानम् ।। पयो भवता, सुपानम् , ईषत्पानम् । प्रादन्तजितेभ्यः केचिद् विकल्पमिच्छन्ति, तन्मते'दुःशासः, दुर्योधः, दुर्दर्शः, दुर्धर्षः, दुर्मर्षः' इत्याद्यपि भवति । दुर्दशो हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते । कथम् ईषद्दरिद्रः ? विषयेऽप्याकारस्य लोपेनादन्तत्वाभावात खलेव । खलोऽपवादो योगः ॥१४१॥ ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ पश्चमाध्यायस्य तृतीयः पादः ।
मात्रयाप्यधिक किचिन्न सहन्ते जिगीषवः।
इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥१॥ न्या सह-शास्युधि-अनुपसर्गयुध्यादि-साहचर्यान्न आङ: शास इति । दुर्योधन इति-दु खेन युध्यते अन्तर्भूतण्यर्थः सूत्रे शास इति निरनुबन्धता यङ लोपेऽपि दुःशासन इति प्रयोगार्था ।
दुईझे हि राजेति-'ह्रक्रोर्नवा' २-२-८ इति राजन्नित्यस्य वा कर्मता !
इषदरिद्र इति-ननु धातोरकर्मकत्वाद्भावे प्रत्यये कथमत्र पुंस्त्वं दुराख्य भवमित्यादिवन्नपुंसकत्वप्राप्ति: ? सत्यं,-अत्र 'कालाध्व' २-२-२३ इत्यनेन मासादेः कर्मत्वे कर्मणि खल , न तु भावे ततो यत्र मासादौ दरिद्रैर्भयते स ईषद्दरिद्र उच्यते । विषयेऽपीतिअस्याऽनप्रत्ययस्य विषये इत्यर्थः।
___ इत्याचार्यश्री सिद्धहेमचन्द्राभिधानस्वोपज्ञ-शब्दानुशासनबृहद्वृत्तेः पञ्चमाध्यायस्य न्यासतः तृतीयः पादः समाप्तः।