________________
३०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद- ३, सूत्र - १४० - १४१
लकार: 'खलर्थाश्च' इत्यत्र विशेषणार्थः । इह स्त्रीप्रत्ययात् प्रभृति असरूपविधेरभावात् स्पर्धे 'अल: स्त्रीखलना:, स्त्रियास्तु खलनौ' परत्वाद् भवतः । तत्र 'चयः, जयः, लव:' इत्यादावलोsवकाश:, 'कृतिः, हृतिः' इत्यादी स्त्रीप्रत्ययस्य, 'चितिः स्तुति:' इत्यादौ तूभयं प्राप्नोति, अलोऽविशेषेणाभिधानात् तत्र परत्वात् स्त्रीप्रत्ययो भवति । तथा 'दुर्भेदः, सुभेद:' इत्यादt खलोsवकाशः, अलस्तु पूर्व एव 'दुश्चयं सुचयम्, दुर्लवं सुलवम्' इत्यादौ तूभयप्राप्तौ परत्वात् खल् भवति । तथा 'इध्मव्रश्चनः, पलाशच्छेदन:' इत्यादावनस्यावकाशः, अलस्तु पूर्वक एव, 'पलाशशातनो विलवनः' इत्यादौ तूभयप्राप्तौ परत्वादनो भवति । एवं 'हृतिः, कृति' इत्यादौ स्त्रीप्रत्ययस्यावकाश: 'दुर्भेदः, सुभेद:' इत्यादौ खल: 'दुर्भेदा सुभेदा' इत्यादौ तूभयप्राप्तौ परत्वात् खल् भवति । तथा 'इध्मवचनः पलाशच्छेदनः ' इत्यादावनस्यावकाशः, कृतिरित्यादौ स्त्रीप्रत्ययस्थ, 'सक्तुधानी, तिलपिडनी' इत्यादौ तूभयप्राप्तौ परत्वादनडेव भवति ।। १३९ ॥ ॥
न्या० स० - दुःस्वीषतः परत्वादनो भवतीति- 'करणाधारे' ५ -३ - १२० इत्यनेन ।
च्व्यर्थे कर्त्राप्याद् भू-क्रूगः ॥ ५. ३. १४० ॥
कृच्छ्राऽकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्व्यर्थे वर्तमानाभ्यां कर्तृ - कर्मवाचिभ्यां शब्दाभ्यां पराभ्यां यथासंख्यं भू- कृग्भ्यां पर: खल् प्रत्ययो भवति । खानुबन्धबलात् कर्तृकर्मणोरेवानन्तर्यम् ।
दुःखेनानाढ्येनाssढ्य ेन भूयते दुराढ्यं भवं भवता, सुखेनाऽनाढ्यं नाऽऽढय ेन भूयते - स्वाढ्यं भवं भवता, ईषदाढ्यं भवं भवता । दुःखेनाऽनाढ्य आढ्यः क्रियते दुराढ्य - करो मैत्रो भवता, सुखेनानाढ्य आढ्यः क्रियते - स्वाढ्यं करश्चैत्रो भवता, ईषदाढ्य करश्चैत्रो भवता । सुखेनाsकटः कटः क्रियन्ते सुकटंकराणि वीरणानि । सुकरः कटो वीरणेरित्यत्र तु करणविवक्षा ।
च्यर्थे इति किम् ? दुराढ्य ेन भूयते, स्वाढ्य ेन भूयते, ईषदाढ्येन भूयते, आढ्य एव सन् कंचिद् विशेषमापद्यत इत्यर्थः ; एवं दुराढ्यः क्रियते इत्यादि, अभूतप्रादुर्भावेऽपि वा प्रकृते रविवक्षणात् च्व्यर्थो नास्ति ।। १४० ।।
न्या० स० - व्यर्थ कर्त्रा खानुबन्धबलादिति-मागमार्थं हि खानुबन्धः ततो यद्यत्र कर्तृ कर्म्मवाचिभ्यां परेभ्यो दुःस्वीषद्भ्यः पराभ्यामिति विपरीतो विशेषणविशेष्यभावः क्रियेत तदा कर्तृकर्म्मवाचिभ्यां दुरादिभिर्व्यवधानात् मोन्तो न स्यात्, दुःस्वीषद्भ्यस्तु अव्ययत्वात् मागमाऽप्राप्तिरिति ।
दुरायेन भूयते इति - आढ्येन सता दुःखेन भूयते इत्यर्थः । प्रकृतेरविवक्षणादिति - अनाव्य इत्येवंरूपायाः ।
शासू-युधि - दृशि वृषि- मृषातोऽनः ।। ५. ३. १४१ ॥
कृच्छ्राकृछ्रार्थदुःस्वीषत्पूर्वेभ्यः शासूप्रभृतिभ्य आकारान्तेभ्यश्च धातुभ्यो भावकर्मणोरर्थयोरनः प्रत्ययो भवति ।