________________
पाद - ३, सूत्र - १३६ - १३९ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३०३
उत्पूर्वादञ्चतेः पु'नाम्नि करणाssधारयोर्घञ्ञ निपात्यते, अतोये-तोय विषयश्चेत् धात्वर्थो न भवति, जलं चेत् तेन नोदच्यत इत्यर्थः ।
तैलोदङ्कः, घृतोदङ्कः । अतोय इति किम् ? उदकोदश्वनः । " व्यञ्जनात् घञ्” ( ५-३ - १३२ ) इति सिद्धे तोये प्रतिषेधार्थं वचनम् । रूपाविशेषाद् घोऽपि न भवति ॥ १३५ ॥ न्या० स००- उदङ्कोऽतोये - धोऽपि न भवतीति ननु 'पुन्नाम्नि घ' ५ -३ - १३० इत्यस्यापवादो घञ, तत उदकविषये घञ् निवृत्ती प्रत्यनीकाभावात् घेनैव भवितव्यमित्याहरूपाऽविशेषादिति
आनायो जालम् ॥ ५. ३. १३६ ॥
आङ् पूर्वान्नयतेः करणे पुं'नाम्नि घञ् निपात्यते, जालं चेत् वाच्यं भवति । आनयन्ति तेन आनायो मत्स्यानाम्, आनायो मृगाणाम् ।। १३६ ।।
खनो ड-डरेकेकवक-धं च ॥ ५. ३. १३७ ॥
खः पुनाम्नि करणाssधारयोर्ड डर इक इकवक घ घञ् च प्रत्यया भवन्ति । प्राखायत आखन्यते वाऽनेनास्मिन् वा आखः, श्राखरः, आखनिक:, आखनिकवक:, श्राखनः, आखानः ।।१३७।।
न्या० स०-स्वनो डडरे- अनुकार्यानुकरणयोः कथंचिद् भेदाद् धातुत्वाऽभावे इकिरितवां खन इत्यत्राऽभावः ।
इ कि शिव स्वरूपार्थे | ५. ३. १३८ ॥
धातोः स्वरूपेऽर्थे चाभिधेये 'इ कि शितव्' इत्येते प्रत्यया भवन्ति । भञ्जि:, क्रुधि:, । अर्थ-यजेरङ्गानि, भुजिः क्रियते, पचतिर्वर्तते ॥ १३८ ॥
न्या० स० इफिश्तित् केचिदेतान् प्रत्ययान् कर्त्तरि समानयन्ति स्वमते तु कर्तृ कर्मभाव इति विशेषाभावात् सामान्येन भवन्ति । भवते: सिज्लुपि' ४-३-१२ 'न कवते - र्यङ : ४-१-४७ इत्यादौ भावेऽपि सूत्रसामर्थ्यात् शब् न तु क्यः । पचतिर्वर्तते इति- बाहुलकाद भावेऽपि शव् घयाऽभावश्च ।
दुःस्वीषतः कृच्छाच्छार्थात् खलु ।। ५. ३. १३१ ।।
कृच्छ्र ं दुःखम्, श्रकृच्छ्र सुखम् कृच्छ्रार्थवृत्तेर्दुरः सामर्थ्यादकृच्छ्रार्थवृत्तिभ्यां स्वीषद्द्भ्यां पराद् धातोर्भाव- कर्मणोरर्थयोः खल् प्रत्ययो भवति । कृत्यादीनामपवादः ।
दुःखेन शय्यत इति - दुःशयम, सुखेन शय्यते इति - सुशयम्, ईषच्छ्यं भवता । दुःखेन क्रियते इति - दुष्करः । सुखेन क्रियते इति - सुकरः, ईषत्करः कटो भवता । दुष्करं सुकरम् ईषत्करं भवता । दुःस्वीषत इति किम् ? कृच्छ्रसाध्यः, सुखसाध्यः । कृच्छ्राकृच्छार्थादिति किम् ? ईषल्लभ्यं धनं कृपणात्, अल्पं लभ्यमित्यर्थः । खकार उत्तरत्र मागमार्थः ।