________________
३०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-१३२-१३५
भज्यतेऽनेनास्मिन्निति वा भगः, भगमिति बाहुलकात क्लीबेऽपि घः। कषत्यस्मिन्नितिकषः, एवमाकषः, निकषः ॥१३१॥
व्यञ्जनाद् घन ॥५. ३,१३२॥
व्यञ्जनान्ताद् धातोः पुनाम्नि करणाऽऽधारे घञ् प्रत्ययो भवति, घस्थापवादः । वित्यनेन विन्दति विन्दते वा-वेदः । चेष्टतेऽनेन-चेष्टो बलम । एत्य पचयस्मिनित्या पाक: । प्रारामः, लेखः, बन्धः, नेगः, वेगः, रागः, रङ्गः, क्रमः, प्रसादः, अपामार्गः, नीमार्गः ॥१३२॥
न्या० स०-व्यञ्जनाद् घञ्-घस्यापवाद इति-'पुन्नाम्नि' ५-३-१३० इति प्राप्तस्य ।
अवात् तस्तभ्याम् ॥ ५. ३. १३३ ॥ अवपूर्वाभ्यां तृ-स्तृभ्यां करणाऽऽधारयोः पुनाम्नि घञ् भवति ।
अवतरन्त्यनेनास्मिन् वेति-अवतारः । अवस्तृणन्त्यनेनास्मिन्निति वा-अवस्तारः । बहुलाधिकारादसंज्ञायामपि-प्रवतारो नद्याः, उत्पूर्वादपि-नद्युत्तारः । करणाऽऽधार इत्येव ? अवतरः। केचित् तु-संज्ञायामसंज्ञायां च भावेऽकर्तरि कारके च स्त्रो नित्यं तरतेस्तु विकल्पेन घनमिच्छन्ति । द्विवचनं करणाऽऽधार इति यथासंख्यनिवृत्यर्थम् ॥१३३।।
न्या० स०-अवात्तस्तृभ्याम्-अवतारो नद्या इति-येन केनाऽपि पथाऽवतीर्यते स . एवावतारो न तु कस्यापि संज्ञा । न्यायाऽऽवायाऽध्यायोद्याव-संहारावहाराऽऽधार-दार--जारम् .
॥५. ३. १३४ ॥ स्वरान्तार्थ आरम्भ, एते शब्दाःपुनाम्नि करणाधारयोर्धे प्राप्ते घअन्ता निपात्यन्ते ।
निपूर्वस्येणो नीयतेऽनेनेति-न्यायः । एत्य वयन्ति वायन्ति वा तत्रेत्यावायः । अधीयतेऽनेनास्मिन् वा-अध्यायः । उद्युवन्ति तेन तस्मिन् वा-उद्यावः। संहरन्ति तेनसंहारः । अवहरन्ति तेन तस्मिन् वा-अवहारः। आघ्रियते तत्रेत्याधारः । दीयन्ते एभिरिति-दाराः। जीर्यतेऽनेनेति-जारः। दारयन्तीति-दाराः। जरयतीति-जार इति कर्तरि केचिन्निपातयन्ति ।।१३४||
न्या० स०-न्यायावाया-केचिन्निपातयन्तीति-ननु जार इत्यस्य 'कगेवनूजनैजष्' ४-२-२५ इति हस्वत्वे दीर्घार्थं निपातः क्रियतां, दार इत्यस्य तु कि निपातनेन ? सत्यं. भयविवक्षायां दधातोर्घटादित्वात् दरयतीति यदा क्रियते तदापि दीर्घो भूयादित्येवमर्थं निपातः।
उदकोऽतोये ॥ ५. ३. १३५ ॥