________________
पाद-३, सूत्र-१२९-१३१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३०१
आभरणम् । अपादाने, पत्-प्रपतत्यस्मादिति-प्रपतन: । स्कन्दि-प्रस्कन्दनः। श्च्योतिप्रश्च्योतनः । सृष्-निर्झरणाः । धृ-शङ्खोद्धरणः । दाग-अपादानम् । बहुवचनं प्रयोगानुसरणार्थम् ।।१२८।।
न्या० स०-भूजिपत्यादिभ्यः अवस्रावणमिति-अवस्रवत् अधः पतत् प्रयुङ क्ते णिगि अवस्राव्यते । वसनमिति-वसिक् वस्यते तदिति ।
करणाऽऽधारे ॥ ५. ३. १२१ ॥ करणाऽऽधारयोरर्थयोर्धातोरनट् भवति, घनाद्यपवादः ।
करणे-एषणी, लेखनी, विचयनी, इध्मवश्चनः, पलाशशातनः, अविलवन:, श्मश्रु. कर्तनः। आधारेगोदोहनी, सक्तुधानी, तिलपोडनी, शयनम् , मासनम् , अधिकरणम् , आस्थानम् ।। १२९।।
पुनाम्नि घः ॥ ५. ३. १३०॥ पुसो नाम-संज्ञा पुन्नाम, तत्र गम्यमाने करणाऽऽधारयोर्धातोर्घः प्रत्ययो भवति ।
करणे-प्रच्छदः, उरश्छदः, दन्तच्छदः, प्लवः, प्रणवः, करः, प्रत्यय:,शरः । आधारेएत्य कुर्वन्त्यस्मिन्नित्याकरः, आलवः, आरवः, पापवः, भव:, लयः, विषयः, भरः, प्रहरः, प्रसरः, अवसरः, परिसरः, विसरः प्रतिसरः । ग्रहणं किम् ? विचीयतेऽनयेति-विचयनी, प्रधोयते विकारोऽस्मिन्निति-प्रधानम् । नाम्नीति किम् ? प्रहरणो दण्डः । बहुलाधिकारात क्वचिन्न भवति-प्रसाधनः, दोहनः । घकार "एकोपसर्गस्य च घे" ( ४-२-३४ ) इत्यत्र विशेषणार्थः ॥१३०।।
___ न्या० स०-पुनाम्नि घ:-प्रणव इति-स्मरस्तु स्मरन्ति कामिनीमनेनेति वाक्ये अनेन घः इति पारायणम् । प्रधानमिति-सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानम् । प्रसाधन इत्यत्र-णिगन्तादऽनट् एवं दोहन इत्यत्र । गोचर-संचर-बह-व्रज व्यज-खला-ऽऽपण निगम-बक भग-कषाऽऽ
कष-निकषम् ॥ ५. ३. १३१॥ एते शब्दा: करणाऽऽधारयोः पुनाम्नि व्यञ्जनाद् घनि प्राप्ते घप्रत्ययान्ता निपात्यन्ते ।
गावश्चरन्ति प्रस्मिन्निति-गोचरो देशः, व्युत्पत्तिमात्रं चेदम् , विषयस्य तु संज्ञा"अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्"। संचरन्तेऽनेन-संचरः। वहन्ति तेन-वहः, वबस्कन्धदेशः । वजन्त्यस्मिन्निति-व्रजः । विपूर्वोऽजि:, व्यजत्यनेन-व्यजः. निपातनादीभावाभावः । खलन्त्यस्मिन्निति-खलः । एत्य पणायन्ति अस्मिन्निति-आपणः । निगच्छन्ति तत्रेतिनिगमः । वक्तीति-बकः, बाहुलकात कर्तरि । निपचन्त्यनेन निपक-इत्यपि कश्चित् ।