________________
३०० ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद-३, सूत्र-१२५-१२८
यत्कर्मस्पर्शात् करृङ्गसुखं ततः ॥ ५. ३. १२५ ॥
येन कर्मणा संस्पृस्यमानस्य कर्तुरङ्गस्य-शरीरस्य सुखमुत्पद्यते ततः कर्मणः पराद् धातोः क्लीबे भावेऽर्थेऽनट भवति । पूर्वेणैव प्रत्यये सिद्धे नित्यसमासार्थ वचनम् ।
पयःपानं सुखम् । ओदनभोजनं सुखम् । कर्मेति किम् ? अपादानादिस्पर्श मा भूततूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? शिष्येण गुरोः स्नापनं सुखम्, स्नापयतेन गुरुः कर्ता, कि तहि ! कर्म। अङ्गग्रहणं किम् ? पुत्रस्य परिष्वञ्जनं सुखम् , पुत्रस्य स्पर्शान्न शरीरस्य सुखं, कि तहि ! मानसी प्रीतिः, अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् ।
सुखमिति किम् ? कण्डकानां मर्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तात् तसुः, येन कर्मणा स्पृश्यमानस्य कर्तुरङ्गसुखमुत्पद्यते तस्मिन् कर्मण्यभिधेये सामर्थ्यात कर्त: पराद धातोरनट भवति, इत्यपरोऽर्थः । राज्ञा भज्यन्ते-राजभोजनाः शालयः, राजाच्छादनाः प्रावाराः, राजपरिधानानि वासांसि ।।१२५।।
न्या० स० यत्कर्मस्पर्शा-नित्यसमासार्थमिति-'इस्युक्त कृता' ३-१-४६ इत्यनेन, पूर्वेण हि प्रत्यये ङस्युक्तत्वाऽभावे केन समासः स्यात् । पयः पानमिति-नित्यसमासत्वाद पयसां पानमिति न कार्य, किन्तु पयसः पीतिरिति शब्दान्तरेणार्थः कथ्यते । सप्तम्यन्तात्तसुरिति-तदा पृषोदरादित्वाद्दलोपः, 'आ द्वेर' २-१-४१ इति तु न तसादी चेत्यधिकारात्. एके तु तस्वादावपीच्छन्ति ।
रम्यादिभ्यः कर्तरि ॥ ५. ३. १२६ ॥
रम्यादिभ्यो धातुभ्यः कर्तर्यनट् भवति । रम्-रमणी । नन्द-नन्दनी । कम्-कमनी । ह्लाद्-ह्लादनी। वश्च-इध्मवश्चनः । शाति:-पलाशशातनः । बहुवचनं प्रयोगानुसरणार्थम् ।।१२६।।
न्या० स० रम्यादिभ्यः कर्त्तरि-रमणी इति-रमते इति कृते णकतृचादयोऽनेन अनटा बाधिताः सन्तो बाहुलकादेव भवन्ति, एवमन्येषाम् । इध्मवश्चन इति-वृश्चतीति, इध्मानां व्रश्चनः 'कृति' ३-१-७७ इति समासः।।
कारणम् ॥ ५. ३. १२७॥
कृगः कर्तर्यनट् वृद्धिश्न निपात्यते । करोतीति-कारणम् । कर्तरीति किम् ? करणम् ।।१२७॥
भुजि-पत्यादिभ्यः कर्माऽऽपादाने । ५. ३. १२८ ।। भुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथासंख्यं कर्मण्यपादाने चानट् भवति ।
भुज्यते इति-भोजनम् । निरदन्ति तदिति निरदनम् । आच्छादि-आच्छादनम् । अवस्रावि-अवस्रावणम् । अवसिच-प्रवसेचनम् । अस्-असनम् । वस्-वसनम् । आभृग