________________
पाद - ३, सूत्र - ९४-६६ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २९३
संपूर्वादिण श्राङ्पूर्वात् सुनोतेश्च भावाऽकत्रः स्त्रियां क्तिर्भवति, क्यपोऽपवादः । समिति:, आसुतिः । समाङोऽन्यत्र - इत्या, सुत्येति क्यबेव भवति ॥ ६३ ॥
साति-ति-यूति-जूति ज्ञष्टि- कीर्ति ।। ५. ३. १४ ॥
एते शब्दा भावाऽकर्त्रीः क्तिप्रत्ययान्ता निपात्यन्ते ।
सिनोतेः सुनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते - सातिः । हिनोतेर्गुणे हन्तेर्वाऽन्त्यस्वरादेरेत्वेहेतिः । यौतेर्जवतेश्व दीर्घत्वे-यूतिः, जूतिः । ज्ञपयतेज्ञप्तिः, कीर्तयतेःकीर्तिः, आभ्यां ण्यन्तलक्षणोऽनो न भवति । कीर्तनेत्यपि कश्चित् ।। ९४ ।।
गा-पा-पची - भावे ।। ५, ३. १५ ॥
एभ्यो भावेऽर्थे स्त्रियां क्तिर्भवति । 'गा' इति सामान्येन ग्रहणम्, प्रगीतिः, संगीतिः | 'पा' इति गा-पचिसाहचर्यात् पिबतेर्ग्रहणम्, प्रपीतिः, संपीतिः । पक्तिः, प्रपक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । बाधकस्याङोऽपवादः ।।५।।
न्या० स०- गापापचो - पिबतेर्ग्रहणमिति - पायतेस्तु लाक्षणिकत्वान्न ग्रहः । प्रपीतिरिति भावेऽनेन क्तिरेव आधारे तु स्थादिभ्यः कः, अपादाने तु 'उपसर्गादातः ' ५ -३ - ११० इत्यऽङ ।
आयटिव्रज्यजः क्यप् - अस्य क्यपो न कृत्यसंज्ञा प्रकरणात्तत्र विहितस्यैव भवति । स्थो वा ॥ ५. ३. १६ ॥
तिष्ठतेर्भावेऽर्थे स्त्रियां तिर्वा भवति । प्रस्थितिः, उपस्थितिः । वावचनादङपिआस्था, व्यवस्था, संस्था | पूर्ववदङोऽपवादः ||१६||
आस्यटि. व्रज्-यजः क्यप् ॥ ५. ३. १७ ॥
एभ्यः परो भावेऽर्थे स्त्रियां क्यप् प्रत्ययो भवति । श्रास्-आस्था | अट्-अट्या, "वृथाऽट्या खलु सा तस्याः" । व्रज्-व्रज्या । यज् - इज्या | ककारः कित्कार्यार्थः । पित्करणमुत्तरत्र तागमार्थम् ||७||
भृगो नाम्नि ॥ ५. ३. १८ ॥
भृगः परो भावेऽर्थे स्त्रियां नाग्नि-संज्ञायां क्यप् प्रत्ययो भवति । भरणं भृत्या । नाम्नीति किम् ? भृतिः । भाव - इत्येव ? भ्रियत इति मार्या वधूः ॥ ६८ ॥
समज निपनिषद-शी-सुग्-विदि- चरि-मनीणः ॥ ५.३.११ ॥ योगविभागाद् भाव एवेति निवृत्तम् । एभ्यः परो नाम्नि भावाऽकत्रः स्त्रियां
क्यप् भवति ।