________________
२६४]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-१००-१०४
समज-समजन्त्यस्यामिति-समज्या। निपनिषदेति संहितानिर्देशात पतेः पदेश्च ग्रहणम्, निपतन्त्यस्यामिति-निपत्या, निपद्या। निषद्-निषदनं निषीदन्त्यस्यामिति वानिषद्या । शीड-शेरतेऽस्यामिति शय्या। संग-सवनं सन्वन्त्यस्यामिति वा-सत्या । विदवेदनं विदन्ति तस्यां तया वा हिताहितमिति-विद्या। चर् चरणं चरन्ति प्रनयेति वा-चर्या । मन्-मननं मन्यतेऽनयेति वा-मन्या। इण्-अयनमेत्यनयेति वा-इत्या । नाम्नीत्येव ? संघीतिः, निपत्तिः, निषत्तिः ||६||
न्या० स०-समजनि-पूर्ववत् संज्ञाशब्दत्वात् आधारेऽपि क्यप् । विद्येति-संज्ञा. शब्दत्वात् आदादिकस्यैव विदेब्रहणं न त्वऽन्यस्य ।
कृगः श च वा ॥ ५. ३.१००।
करोतेर्भावाकों: स्त्रियां शः प्रत्ययो वा भवति, चकारात क्यप् च । क्रिया, कृत्या, पक्षेकृतिः । क्रियेति यदा भाव-कर्मणोः शस्तदा मध्ये क्यः, यदा त्वपादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥१०॥
मृगयेच्छा-याच्या-तृष्णा-कृपा-भा-श्रद्धाऽन्तर्धा ॥ ५. ३. १०१ ॥
एते शब्दाः स्त्रियां निपात्यन्ते । तत्रेच्छा भाव एव, शेषास्तु भावाऽकोंः । अन्ये तु सर्वान् भाव एवानुमन्यन्ते।
मगयतेः शः शव् च क्यापवादो निपात्यते-मृगया। इच्छतेः शः क्याभावश्चइच्छा । याचितृष्योर्न-नौ-याच्या, तृष्णा । क्रपेरङ् रेफस्य च ऋकार:-कृपा । भातेरङ्भा। श्रत्पूर्वादन्तःपूर्वाच्च दधातेरङ्-श्रद्धा, अन्तर्धा ॥१०॥
न्या० स०-मृगयेच्छा तृष्णेति-केचित्तु भिदादित्वात् तृषा, स्वमते तु क्रुत्संपदादित्वात् तृट् ।
परेः सृ-चरेयः ॥ ५. ३. १०२ ॥
परिपूर्वाभ्यां सूचरिभ्यां परः स्त्रियां य: प्रत्ययो भवति, भावाऽकोंः । भाव इत्यन्ये । परिसर्या, परिचर्या । परेरिति किम् ? संसृतिः, चूतिः ॥१०२॥
वाटाट्यात् ॥ ५. ३. १०३ ॥ अटतेयंडन्तात् स्त्रियां यः प्रत्ययो वा भवति, भावाऽकों: । भाव इत्यन्ये ।
अटाटया, पक्षे-अः प्रत्ययः-प्रटाटा । अन्ये तु क्तिप्रत्ययबाधनार्थमटतेरयङन्तस्य यप्रत्ययं द्विवचनं पूर्वदीर्घत्वं च निपात्यन्ति-अटनमटाटया ॥१०३।।
जागुरश्च ॥ ५. ३. १०४॥
जागर्तेः स्त्रियामः प्रत्ययो यश्च भवति । भावाऽकोंः। भाव इत्यन्ये । जागरा, जागर्या ॥१०४॥