________________
२९२ ]
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-३, सूत्र-६०-९३
अभिव्याप्तौ भावेऽन-जिन् ।। ५. ३. १०॥
क्रियया स्वसंबन्धिनः साकल्येनाभिसंबन्धोऽभिव्याप्तिः, तस्यां गम्यमानायां भावे धातोः 'अन जिन्' इत्येतो प्रत्ययो भवतः ।
समन्ताद् राव:-संवरणं सांराविणं सेनायां वर्तते । संकुटनं सांकौटिनमेषाम् । अभिव्याप्ताविति किम् ? संरावः, संकोटः । भावग्रहणं कर्माविप्रतिषेधार्थम् । असरूपविधिना क्त-घनादिनिवृत्त्यर्थमनग्रहणम् ॥१०॥
न्या० स०-अभिव्याप्तौ-क्रियया इति-द्विहेतोः' २-२-८७ इति कर्तरि वा षष्ठीत्यऽत्र न । असरूपविधिनेति-अयमर्थो यदि असरूपन्यायेनानट् भविष्यति तदान ग्रहणं न क्रियते, यथा ह्यनट तथा असरूपविधिनैव क्तपत्रावपि प्राप्नुतः तो माभूतामित्यनग्रहणम् ।
स्त्रियां क्तिः॥ ५. ३. ११॥
स्त्रियामिति प्रत्ययार्थविशेषणम् । धातो वाऽकों: स्त्रीलिङ्गे तिः प्रत्ययो भवति, घनादेरपवादः।
कृतिः, हतिः, चितिः, नीतिः, नुतिः, भूतिः। स्त्रियामिति किम् ? कारः, चयः ।९।। श्रूवादिभ्यः ॥ ५. ३. १२॥
शृणोत्यादिभ्यो धातुभ्यो स्त्रीलिङगे भाषाकों. क्तिर्भवति । वक्ष्यमाणैः क्विबादिभिः सह समावेशार्थ वचनम् ?
श्र-श्रुतिः, प्रतिश्रुत् । स्त्र- तिः, प्रतिसत । पद्-संपत्तिः, संपद् । सद्-आसत्तिः, संसद, उपनिषद् , निषद्या। विद्-संवित्तिः, संवित; विद्या, वेदना । लभ-लब्धि लभा । अर्द-शिरोतिः, प्रदिका । शस्-प्रशस्तिः, प्रशंसा । पच-पक्तिः, पचा। कण्डूय-कण्डुतिः, कण्डः, कण्ड्या । व्यवक्रुश-व्यवक्रुष्टिः, व्यावक्रोशी। इष्-इष्टिः, इच्छा । यज्-इष्टिः, इज्या। मन-मतिः, मन्या। आस-पास्या, उपास्तिः, उपासना । शास्-अनुशिष्टिः, आशीः । भृग-भृतिः, भृत्या । स्तूयते इज्यते इष्यतेऽनयेति-स्तुतिः, इष्टिः इष्टिरिति, संज्ञाशब्दत्वात करणेऽपि क्तिरेव नानट् । एवं-स्र तिः । अन्यत्र तु स्पर्धे परत्वाद के स्त्रीखलना प्रलो बधकाः, स्त्रियाः खलनौ * इति न्यायः ॥१२॥
___ न्या० स०-वादिभ्यः आसत्तिरिति-उपसर्गाणामतन्त्रत्वात् श्रुसदादिभ्यः क्तिक्विबादयोऽप्यनुज्ञाताः।
अदिकेति-यद्यपि णकप्रस्तावे शिरसोऽर्दनं शिरोत्तिरित्यत्र बाहुलकाण्णको निषिद्धः 'क्तेट' ५-३-१०६ इति अप्रत्ययोऽपि तथापि तत्र भाव एवात्र त्वपादानादौ अद्यतेऽस्याः 'नाम्नि पुंसि च' ५-३-१२१ इति णकः, भावे तु न तत्रैव बाहुलकादिति भणनात् ।
समिणासुगः ।। ५. ३. १३ ॥