________________
१२ ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद- ३, सूत्र - २२ २३
त्यादिवाव्ययेनेतिः - यथा त्याद्यभिहितो भावोऽसत्त्वरूपतां भजति तथाऽव्ययेनापीत्यर्थः, अव्ययेनेति चोपलक्षणं तेन भावे कृत्यप्रत्ययान्तेनापि तथैव ।
बहुवचनमिति - आस्यन्ते, शय्यन्ते इत्यस्य अव्ययेनेव त्याद्यभिहित भावस्येत्यर्थः ।
अभेदोपचारादिति - आस्यन्ते इत्येवंरूपस्य साध्यभावस्योष्ट्रा सिकारूपेण सिद्धताख्येन सहेत्यर्थः । ' कया युक्त्या आस्यन्ते' इति कोऽर्थः ? आसनानि वर्त्तन्ते किं विशिष्टानि ?, उष्ट्रासिका उष्ट्रा सिकारूपाणि, एवं द्वितीयेऽपि ।
इङितः कर्तरि ॥ ३. ३. २२ ॥
इकारेतो ङकारेतश्च धातोः कर्त्तर्यात्मनेपदं भवति । इदित्-एधि एधते, स्पधि- स्पर्धते एधमानः, स्पर्धमानः । ङितू-शिङ्- शेते, शयनः, ह, नुङ् ह, नुते, ह, नुवानः; महीड़महीयते, महीयमानः, कामयते, कामयमानः श्येनायते, श्येनायमानः; पापच्यते, पापच्यमान:; उत्पुच्छयते, उत्पुछ्धमानः । एभ्य एव कर्तरीति नियमार्थं वचनम् ।। २२ ।।
न्या० स० - इङितः भावकर्म्मणोः पूर्वसूत्रोपादानन्यादेव कर्तृ ग्रहणे सिद्धे तद्ग्रहणमुत्तरार्थं तेनोत्तरसूत्रेण कर्त्तयेव विधानं, ततो व्यतिगम्यन्ते ग्रामा इत्यादिषु पूर्वेणात्मनेपदं सिद्धमन्यथा अगतीत्यंशेन निषेधः स्यादिति तत्र स्वयमेव कथयिष्यति ।
नियमार्थमिति - सतीत्यादिसूत्रैः परस्मैपदात्मनेपदविशेषरहितानां सामान्येन वर्त्तमानादिविभक्तीनां विधानादात्मनेपदे सिद्धे नियमः प्रत्ययनियमश्चायं एभ्य आत्मनेपदमेव न प्रत्ययान्तरमिति, विपरीतनियमो न 'इङितो व्यञ्जन० ' ५-२-४४ इत्यादिकरणात्, कर्त्तयेवात्मनेपदमेभ्य इत्यपि वैपरीत्यं न तत्साध्येत्यस्य व्यक्त्या प्रवृत्तेः ।
क्रियाव्यतिहारेऽगति हिंसा - शब्दार्थ- हसो हवहवानन्योऽन्यार्थे
॥ ३. ३. २३ ॥
इतरेण चिकषितायां क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः, तस्मिन् अर्थे वर्तमानाद् गतिहिंसाशब्दार्थ - हसवजताद् धातोर्ह वहिभ्यां च कर्तर्यात्मनेपदं भवति, न चेदन्योऽन्यार्था: - अन्योऽन्येतरेतर परस्परशब्दाः प्रयुज्यन्ते । व्यतिलुनते, व्यतिपुनते, व्यतिहरते भारम् संप्रहरन्ते राजानः, संविवहन्ते वर्गेः । हृ-वहोर्गतिहिंसार्थत्वात् प्रतिषेधे प्राप्त प्रतिप्रसवार्थमुपादानम् । व्यतिहार इति किम् ? लुनन्ति, पुनन्ति । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत्-चैत्रस्य धान्यं व्यतिलुनन्ति श्रत्र लुनातिरुपसंग्रहात्मके लवने वर्तते । चैत्रेण यत् गृहीतं धान्यं पुरस्ताल्लवनेनोपसंगृह्णन्तीत्यर्थः । प्रगति - हिंसाशब्दार्थ- हस इति किम् ? । व्यतिगच्छन्ति, व्यतिसर्पन्ति, व्यतिहिंसन्ति, व्यतिघ्नन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति, व्यतिहसन्ति । अनन्योऽन्यार्थे इति किम् ? अन्योऽन्यस्य व्यतिलुनन्ति इतरेतरस्य व्यतिलुनन्ति, परस्परस्य व्यतिलुनन्ति । क्रियाव्यतिहारो व्यतिनैव द्योतित