________________
पाद-३, सूत्र-२१]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
[११
तत् साप्या ऽनाप्यात् कर्म-भावे कृत्य-क्त खलाश्व।। ३. ३. २१॥
तद्-प्रात्मनेपदं, कृत्य क्त-खलाश्च प्रत्ययाः साप्यात्-सकर्मकाद् धातोः कर्मणि, अनाप्याद् अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति । क्रियते कटश्चैत्रेण, क्रियमाणः, करिष्यमाणः चक्राणः । भावे-भूयते भवता, भूयमानं भवता, सकर्मका अप्यविवक्षितकर्माणः कञकनिष्ठव्यापारा अकर्मका भवन्ति, तेनैषां भावेऽपि प्रयोगः-क्रियते भवता, मृदु पच्यते भवता, पञ्च वारान् भुज्यते भवता। कृत्य-कार्यः, कर्तव्यः, करणीयो, देयः, कृत्यः कटो भवता, भवती शयितव्यम् , भवता शेयम् , भवता कार्यम् , कर्तव्यम् , करणीयम् ; देयं भवता, कृत्यं भवता । क्त-कृतः कटो भवता, शयितं भवता, कृतं भवता । सकर्मकादपि क्लीबे क्तमिच्छन्त्येके-ग्रामं गतं भवता; ओदनं भुक्तं भवता । खलर्थ-सुकरः कटो भवता, सुशयं भवता, सुकरं भवता, सुकटंकराणि वीरणानि, ईषदाढय भवं भवता, सुज्ञान तत्त्वं मुनिना, सुग्लानं कृपणेन । “काला-ऽध्व-भाव-देश वा०" [२. २. २३ ) इत्यादिना काला-ऽध्व-भाव-देशानां कर्मसंज्ञाया अकर्मकत्वस्य च विधानात् तद्योगे कर्मणि भावे चात्मनेपदादीनि भवन्ति-मास आस्यते, क्रोशो गुडधानाभिभूयते, गोदोहः सुप्यते, नदी सुप्यते, मास प्रासितव्यः. मास आसितः, मासो दुरासः; भावे-मासमास्यते. कोशमधीयते, प्रोदनपाकं स्थीयते, कुरून् सुप्यते, मासमासितव्यम् , मासमासितत् , मासं स्वासम् । भावे च युष्मस्मत्संबन्धनिमित्तयोः कर्तृ-कर्मणोरभावात प्रथममेव त्रयं भवति, साध्यरूपत्वाच्च संख्यायोगो नास्तीति प्रोत्सगिकमेकवचनमेव भवति । पाकः पाको पाका:, पाको वतते, पाक करोतीत्यादौ च नव्ययकदाभिहितो भावो द्रव्यवत प्रकाशत इति संख्यया लिङगेन कारकैश्च युज्यते, त्यादिनेवाव्ययेनाभिहितस्त्वसत्त्वरूपत्वान्न युज्यते 'उष्ट्रासिका पास्यन्ते, हतशायिकाः शय्यन्ते' इति तु बहुवचनं कृदभिहितेनाभेदोपचाराद् भवतीति ॥२१॥
न्या०-स०-तत्साप्याऽनाप्या-तेनैषां भावेऽपीति-भावे क्रिया न स्वाश्रिता, न पराश्रिता किन्तु निराधारैव शाब्द्या वृत्त्या, आर्थ्या तु भवतीत्यपि ।
ग्रामं गतं भवतेति भवता क; गतं वर्तते । के ग्रामं ‘वा क्लीब' २-२-६२ इति षष्ठ्यपि भवति, यथा ग्रामस्य गतमिति।।
मासमासितव्यमिति-द्वितीयाप्रदानकाले कर्मसंज्ञा षष्ठीप्रदानकाले तु न स्याद्वादात् ।
'भावे च युष्मदस्मत्संबन्धेति युष्मदस्मदोर्यः संबन्धस्तस्य निमित्तयोः कारणभूतयोरित्यर्थः, यद्यपि नाऽकर्त को भाव इति तथापि यत्र सामानाधिकरण्येनात्मनेपदाभिधेयः कर्ता कर्म वा भवति स संबन्धो ग्राह्यो, भावे तु न तादृशः धात्वर्थ एव तत्र विधानात् , यथा त्वं पाठ्य से इत्यत्र कम्मरूपो युष्मदर्थः, आत्मनेपदेन प्रतिपाद्यते । त्वं पठसीति कत रूपः, एवमहं पाठ्य, अहं पाठयामीत्यत्रापि । ततश्च कर्मकोंः प्रतिपादित्वात आत्मनेपदेन कर्मकर्तृकार्य न भवतः, न तथा त्वया भूयते इत्यत्र भावप्रत्ययेन कश्चिदर्थः प्रतिपाद्यते । अतश्च युष्मदस्मदोऽतिरिक्तार्थप्रतिपादकत्वात् प्रथममेव त्रयम् ।
औत्सगिकमिति-एकवचनं च संख्याविशेषाणामभावेऽभेदकत्वं तन्निबन्धनं न तु संख्यानिबन्धनं द्वित्वप्रतियोगि।