________________
१० ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद- ३, सूत्र - १८-२०
यदाह-गौण मुख्यार्थाश्रयत्वात्तथाशब्दोऽपि व्यपदिश्यते, न च त्वमादेशविधावऽर्थचिन्ता कृतेति ।
एहि मन्ये रथेनेति मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमविधानार्थं 'प्रहासे च च भन्योपपदे मन्यतेरुत्तम एकवच्च' इति परसूत्रमत्र प्रहासः, परिहासः प्रहासे गम्यमाने मन्योपपदे धातो मध्यमः पुरुषो भवति मन्यतेश्चोत्तमः स च एकवद् भवतीति सूत्रार्थ: । एहि, मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि, मन्ये रथेन यास्यसि न हि यास्यसि, यातस्ते पिता । मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमौ विधीयेते । प्रहास इति किम् ? एहि, मन्यस ओदनं भोक्ष्ये इति सुष्ठु च मन्यसे, साधु च मन्यसे । न्यासः प्रहासे गम्यमान इति । यत्र भूतार्थाभावात् वञ्चनैव परं तत्र वक्तुरभिप्रायाविष्करणेन प्रहासो गम्यते । मन्योपपदे इति मन्यतिरुपपदमुपोच्चारितं पदं यस्य स तथोक्तः । मध्यमस्य धातोविधानात् धातुरन्यपदार्थो विज्ञायते इत्याह- धाताविति स च एकवच्चेति । यत्र द्वौ मन्तारौ बहवो वा तत्रायमेकवद्भावो विधीयते, अन्यत्र तु वक्तुरेकत्वात् एकवचनं सिद्धम् । मन्य इति श्यनिर्देशो देवादिकपरिग्रहार्थः तेन तनादिकस्य न भवति । सूत्रेऽन्ययुष्मदस्मदीति निर्देशस्यार्थपरत्वेऽपि शब्दार्थयोरभेदाच्छब्दपरत्वेन न 'त्यदादि:' ६-१-७ इत्येकशेषः, तत्रार्थपरत्वेन स्वीकृतत्वात् ।
एक द्वि- बहुषु ।। ३ ३.१८ ॥
अन्यादिषु यानि त्रीणि त्रीणि वचनानि उक्तानि तानि एक-द्वि-बहुष्वर्थेषु परिभाष्यन्ते - एकस्मिन्नर्थे एकवचनम्, द्वयोरर्थयोद्विवचनम् बहुष्वर्थेषु बहुवचनम् । स पचति, तौ पचतः ते पचन्ति इत्यादि । वचनमेवान्नान्यादिभिरेकादीनां यथासंख्यम् ।। १८ ।।
नवाद्यानि शतृ - कसू च परस्मैपदम् । ३. ३. ११ ॥
सर्वासां विभक्तीनामाद्यानि नव नव वचनानि शतृ-क्वसू च प्रत्ययौ परस्मैपदसंज्ञानि भवन्ति । तिय् तस् अन्ति, सिव् यस् थ, मिव् वस् मस् एवं सर्वासु । परस्मैपदसंज्ञाप्रदेशा:"शेषात् परस्मै" इत्यादयः ।। १९ ।।
न्या० स० - नवाद्यानि -नव नव वचनानीति संज्ञिनां बहुत्वादगृहीतविप्सोऽपि नवन् शब्दो वीप्सां गमयति, एवं पराणीत्यत्रापि । नन्वनन्तराया: क्रियातिपत्तेरेवाद्यानि परस्मैपदानीति कथं न लभ्यते ? सत्यं लृदिद्युतादिसूत्रेषु अन्यासामपि विभक्तीनां परस्मैपदग्रहणात् ।
पराणि काना - शौचात्मनेपदम् ॥ ३. ३. २० ॥
सर्वासां विभक्तीनां पराणि नव नव वचनानि काना-ssनशौ च प्रत्ययावात्मनेपदसंज्ञानि भवन्ति । ते आते प्रन्ते, से आये ध्वे, ए वहे महे, एवं सर्वासु । आत्मनेपदप्रदेशा:"सिजाशिषावात्मने" [ ४. ३. ३५ ] इत्यादयः ।। २० ।।