________________
पाद-३, सूत्र-१७]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
कथमत्वं त्वं संपद्यरो-अनहमहं संपद्यते-त्वद्भवति मद्भवति ? युष्मदस्मदोगौणत्वात् , त्वमादेशौ तु शब्दमात्राशयत्वाद् भवत एव ।
एहि मन्ये-रथेन यास्यसि, नहि यास्यसि यातस्ते पितेति प्रहासे यथाप्राप्तमेव प्रतिपत्तिात्र प्रसिद्धार्थविपर्यासे किचिनिबन्धनमस्ति, रथेन यास्यसीति भावगमनाभिधानात् प्रहासो गम्यते, नहि यास्यसीति बहिर्गमनं प्रतिषिध्यते, अनेकस्मिन्नपि प्रहसितार च प्रत्येकमेव परिहास इत्यभिधानवशात् 'मन्ये' इत्येकवचनमेव, लौकिकश्च प्रयोगोऽनुसर्तव्य इति न प्रकारान्तरकल्पना न्याय्या ।। १७॥
न्या० स०-त्रीणि बहुवचनं विभक्तित्रयेऽपि चरितार्थमिति कथं सर्वासामिति लभ्यते ? सत्यं, यद्येतदिष्टं स्यात्तदा विभक्तित्रयानन्तरमिदं सूत्रं कुर्यान्न सर्वविभक्त्यन्ते ।
___ अन्यत्वमिति-युष्मदस्मदी चाऽत्र सूत्रे संनिहितेऽतस्तदपेक्षयवाऽन्यस्मिन्निति विज्ञायते । नन्वस्तु युष्मदस्मदपेक्षमन्यत्वं युष्मदस्मदोस्त्वत्र स्वरूपग्रहणमुतार्थग्रहणं स्वरूपेण चेत; किमसि, विस्मरसि स्मरसायकान, नास्मि, रमे, कि प्रतार यस्येवमिति युष्मदस्मदपेक्षमन्यत्वं युष्मदस्मदर्थप्रयोगे द्वितीयतृतीयत्रिके न स्याताम् ? इत्याह-युष्मवर्थ इत्यादि-नन्वर्थग्रहणे भवान् मन्यते इत्यत्रापि प्राप्नोति ? मैवं, भवच्छब्दस्य हि युष्मदर्थत्वाभावाद् द्वितीयत्रिकाप्रसङ्गः, भवच्छब्दो हि अन्यार्थो, न युष्मदर्थः, युष्म च्छब्दप्रवृत्ति प्रति योग्यो हि यष्मदर्थो न च भवच्छब्देनाभिधीयमानो युष्मच्छब्दप्रवत्ति प्रति योग्यः, न हि कदाचिदेवं प्रयुज्यते त्वं भवान् पचसीति । एकेनैव तस्मिन्नुक्ते तत्रेतरस्य विषयाभावादित्याह
तेनेत्यादि-भवच्छब्देनाभिधोयमाने युष्मदर्थाभिधायकस्यापि शब्दस्य न प्रतिषेधः । मत्संबन्धेऽस्तिधातोर्वर्तमानासिवि प्रत्यये योऽसौ प्रयोगस्तत्सदृशत्वात् कि बहुनाऽस्येष्टत्वात् भवति ।
त्वं पचसीति-त्वमिति सामान्य उक्ते न ज्ञायते-किं गच्छसि, पठसोति विशेषार्थ पचसीति प्रयुञ्जते । युष्मच्छब्दस्तु केनचिद् भ्रान्त्या पचसीति पदे भवदर्थेऽपि ज्ञाते तन्निरासाय त्वमिति प्रयोक्तुयुक्तः, यथा शंखस्य धवलत्वे सत्यपि भ्रान्त्या केनचित् पीतत्वे ज्ञाते पाण्डुर इति विशेषणमुपन्नम् ।
कथमऽत्वं त्वमिति-अयमर्थः प्रकृतिविकृत्योरभेदविवक्षायां च्विः प्रत्ययस्त च किं प्रकृत्याश्रयणे प्रथमत्रिकेण भवितव्यमुत विकृत्याश्रयणे द्वितीयत्रिकेणेति ? उच्यते, प्रकृतेरेव संपत्तौ कर्तृत्वात् प्रथमेनैव भाव्यमित्याह
त्वद्भवति मद्भवतीति-संपद्यते इत्यर्थकथनमिदमन्यथा कृ-भ्वस्तियोगाभावात् विन स्यात् !
यूष्मदस्मदोगौणत्वादिति-अयमर्थः-अत्र पूर्व अत्वंशब्देन सह संबन्धोऽतो यूष्म च्छब्दस्य गौणत्वं, यदा तु त्वमित्यनेन प्रथम संबन्धो विवक्ष्यते तदा भवत्येव, यद् वा युष्मदस्मदोरर्थस्य निषिध्यमानस्य कर्तृत्वे गौणत्वं यदा त्वनिषिद्धस्य कत्तृ त्वं तदा भवत्येव ।
शब्दमात्राश्रयत्वादिति - अर्थाश्रयो हि शब्दानां गौणमुख्यव्यवहारो, न स्वरूपेण ।
यूम