________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-१४-१७
श्वस्तनी-ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् ; ता तारौ तारस् , तासे तासाथे ताध्ये, ताहे तास्वहे तास्महे ॥ ३. ३. १४॥
इमानि वचनानि श्वस्तनीसंज्ञानि भवन्ति। श्वस्तनीप्रदेशा:-"अनद्यतने श्वस्तनी" [ ५. ३. ५ ] इत्येवमादयः ॥ १४ ॥
भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि. स्यावस् स्यामस् , स्यते स्येते, स्यन्ते, स्यसे स्येथे स्पध्चे, स्ये स्यावहे स्यामहे ॥ ३. ३. १५॥
इमानि वचनानि भविष्यन्तीसंज्ञानि भवन्ति । भविष्यन्तीप्रदेशा -"भविष्यन्ती" [५.३ ४ ] इत्यादयः ॥१५॥
क्रियातिपत्तिः-स्यत् स्यताम् स्यन् , स्यस् स्यतम् स्यत्, स्यम् स्याव स्याम् ; स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम् , स्ये स्यावहि स्यामहि ॥ ३. ३. १६ ॥
इमानि वचनानि क्रियातिपत्तिसंज्ञानि भवन्ति । क्रियातिपत्तिप्रदेशा:-"सप्तम्यर्थे कियातिपत्तौ क्रियातिपत्तिः” [ ५. ४ ६ ] इत्येवमादयः ॥ १६ ॥
त्रीणि त्रीण्यन्ययुष्मदस्मदि ।। ३. ३. १७॥ .
सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थे प्रस्मदर्थे चाभिधेये यथाक्रमं परिभाष्यन्ते । अन्यत्वं युष्मदस्मदपेक्षं संनिधानात् । युष्मच्छब्दोपसृष्टार्थो युष्मदर्थः, तेन भवच्छब्देनोच्यमानो न युष्मदर्थः । स पचति, तौ पचत ते पचन्ति; पचति पचत: पचन्ति; स पचते, तौ पचेते, ते पचन्ते; पचते, पचेते, पचन्ते; भवान पचति, भवन्तौ पचतः, भवन्त: पचन्ति इत्यादि । युष्मदि-त्वं पचसि, युवा पचथः यूयं पचथ; पचसि, पचथः, पचथ; त्वं पचसे, युवां पचेथे, यूयं पचध्वे; पचसे, पचेथे, पचध्वे । अस्मादि-अहं पचामि, प्रावां पचावः, वयं पचामः; पचामि, पचावः, पचामः; अहं पचे, आवां पचावहे, वयं पचामहे ; पचे, पचावहे, पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च शब्दपराश्रयमेव वचनमतिदिश्यते-स च त्वं च पचथः, स चाहं च पचावः, स च त्वं चाहं च पचामः ।