________________
पाद-२, सूत्र-७९-८३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२६९
स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः ।। ५. २. ७१ ॥ स्म्यादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो रः प्रत्ययो भवति ।
स्मयत इत्येवंशील-स्मेरं मुखम् । अजसिति "जसूच मोक्षणे" नपूर्वः, न जस्यतिअजस्र श्रवणम, प्रजना प्रवृत्तिः, अजस्रः पाकः, अजस्र पचति । प्रजनशब्दोऽयं स्वभावात सातत्यविशिष्टां क्रियामाह, तेन धात्वर्थ एव कर्तरि रः प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः, तेनाजस्रो घट इति न भवति । अजस्त्रमित्यव्ययमपि नित्यार्थ क्रियाविशेषणमस्ति । हिस्हिस्रो व्याधः । दीप-दीप्रो दीपः । कम्प-कम्प्रः । कम्-कामयते कम्रा युवतिः ।
बहुलाधिकारात् कर्मण्यपि, कम्यते-कम्रः, तत एव कमितेत्यपि । नम्-नमतीतिनम्रः । अजसि-कमि-नमिभ्यः कर्मकर्तर्यवेच्छन्त्येके ॥७६।।
न्या० स०-स्म्यजस जसूच् मोक्षणे इति-अन्येषामणिजन्तानां साहचर्याच्चुरादिणिजन्तो न गृह्यते । धात्वर्थ एव कर्तरीति-अन्यस्य धातोरर्थ इत्यर्थः, यथाऽजस्रः पाकः इत्यत्य पाकलक्षणेऽर्थे ।
तृषि-धृषि-स्वपो नजिङ्॥ ५. २. ८० ॥ तृषि-धृषि-स्वपिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो नजिड़ प्रत्ययो भवति ।
तृष्यतीत्येवंशीलः-तृष्णक , तृष्णजी। कृष्णक, धृष्णजी । स्वप्नक, स्पप्नजो। डकारो गुणप्रतिषेधार्थः, इकार उच्चारणार्थः । धूषो नेच्छन्त्येके ।।८०॥
स्थेश-भास-पिस-कसो वरः ॥ ५. २. ८१॥ स्थादिभ्यः शीलादो सत्यर्थे वर्तमानेभ्यो वरः प्रत्ययो भवति ।
तिष्ठतीत्येवंशील:-स्थावरः, स्थावरा। ईश्वरः, ईश्वरा। कथमीश्वरी? "अश्नोरोच्चादे:" (४४२) इत्यौणादिके वरटि भवति । भास्वरः, मास्वरा । पेस्वरः, पेस्वरा । विकस्वरः, विकस्वरा । प्रमदेरपीति कश्चिद-प्रमाद्यति-प्रमद्वर ।।१।।
यायावरः ।। ५. २.८२ ॥ यातेर्धातोः शोलादौ सत्यर्थे वर्तमानाद् यन्तात् वरः प्रत्ययो निपात्यते । कुटिलं यातीत्येवंशीलो-यायावरः ॥२॥
न्या० स०-यायावर इति-'य्वोः' ४-४-१२१ इति यलुप्, 'योऽशिति' ४-३-८० इति न व्यञ्जनादित्यधिकारात् । दिद्यु ददृजगज्जुहू-बाक्-मादधी श्री-द्रव -ज्वायतस्तू-कटय़-परि
वाड्-भ्राजादयः किपः ॥ ५. २.८३॥