________________
२६८ ]
बृहवृत्ति लधुन्याससंवलिते
[पाद-२, सूत्र-७३-७८
ग्रहणम् , क्षयो, विधि-विश्रयो, परिभू-परिभवी, वम्-वमी, अभ्यम्-अभ्यमी, अव्यथ-न व्यथते इति-अव्यथी ।।७२।।
न्या० स०-जीण दृक्षि-क्षिक्षितोरिति क्षिष्श् इत्यस्य तु सानुबन्धत्वान्न ग्रहः । सृ-घस्यदो मरक ॥ ५. २. ७३ ।। एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो मरक् प्रत्ययो भवति । सरतीत्येवंशील:-समरः, घस्मरः, अमरः ।।७३॥ भञ्जि-भासि-मिदो घुरः ।। ५. २.७४ ॥ एभ्यः शीलावो सत्यर्थे वर्तमानेम्यो धुरः प्रत्ययो भवति ।
भज्यते स्वयमेवेत्येवंशोलं-भङ्गुरं काष्ठम् । भासते-मासुरं वपुः, मेधति मेदते वामेदुरः । चकारो गत्वार्थः ।।७४।।।
न्या० स०-भञ्जिमासि-'व्याप्ये घुरकेलिम' ५-१-४ इति घुरप्रत्ययस्य व्याप्ये कर्तरि विधानादित्याह-भज्यते स्वयमेवेत्यादि-भासिमिदिविदां तु कर्तर्येव घुरोऽकर्मकत्वेन कर्मकर्तुरसंभवात् ।
वेत्ति-छिद-भिदः कित् ॥ ५. २. ७५ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेम्यः किद् घुरः प्रत्ययो भवति ।
वेत्तीत्येवंशीलो-विदुरः, छिद्यते भिद्यते स्वयमेव-छिद्रः, भिदुरः, कित्त्वाद गुणो न भवति । वेत्तीति तिनिर्देश इतर विदित्रयव्युदासार्थः ॥७॥
भियो रुरुक-लुकम् ॥ ५. २. ७६ ।। शीलादौ सत्यर्थे वर्तमानाद बिभेते 'ह रुक लुक' इति प्रत्ययत्रयं किद् भवति ।
बिभेतीत्येवंशीलो-भीरः, भीरकः भोलुकः । ऋफिडावित्वात् लत्वं प्रयोगानुसारगाद गरीय इति लाघवार्थ लुकवचनम् ॥७६।।
सू-जीण-नशष्ट्वरप् ॥ ५. २. ७७ ।। एम्यः शीलादौ सत्यर्थे वर्तमानेभ्यः किन ट्वरप् प्रत्ययो भवति ।
सरतीत्येवंशोल:-सत्वरः, सत्वरी, जित्वरः, जिस्वरी। इण इत्वरः, इत्वरी। करकर्मणि पथिके नीचे दुर्विधे । नश्वरः, नश्वरी। टकारो ड्यर्थः । पकारस्तागमार्थः ७७।
गत्वरः॥ ५. २.७८ ॥ गमेष्टवरप मकारस्य च तकारो निपात्यते । गत्वरः, गत्वरी ॥७॥