________________
पाद-२, सूत्र-६८-७२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२६७
निन्द-हिंस-क्लिश-खाद-विनाशि व्याभाषा-ऽसूया-ऽनेकस्वरात्
एभ्य: शीलादौ सत्यर्थे वर्तमानेभ्यो को भवति ।
निन्दतीत्येवंशीलो-निन्दकः, हिंसकः, क्लिश्नाति क्लिश्यते वा-क्लेशकः, खादकः, विनाशयति-विनाशकः, व्याभाषक: । प्रसूयः कण्वादो-असूयकः, दरिद्रायकः, चकासकः, गणकः, चुलुम्पकः । अनेकस्वरत्वादेव सिद्धेऽसूयग्रहणं कण्ड्वादिनिवृत्यर्थम् , तेन-कण्डूयिता, मन्तूयिता, तृन्नेव । विनाशिग्रहणं तु अन्यस्य ण्यन्तस्य निवृत्त्यर्थम्-कारयिता । अनेकस्वरान्नेच्छन्त्यन्ये । क्लिशेर-विशेषेण ग्रहणाद् देवादिकादिदित्त्वेऽपि अनो न भवति ।।६।।
न्या० स०-निन्दहिंस-अन्यस्य ण्यन्तस्येति-कथं तहि गणकः, अत्रेदं व्याख्यानं कर्तव्यं, यत् विनाशीति णिगन्तस्योपादानं करोति तत् ज्ञापयति अन्यस्यापि, णिगन्तस्य वर्जनं तेन णिजन्तस्य भवत्येव ।
उपसर्गाद देव-देवि-कुशः ॥ ५. २. ६१ ॥ उपसर्गात परेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यो णको भवति ।
आदेवत इत्येवंशील:-आदेवकः, परिदेवकः । देवोति दीव्यतर्देवतेवा ण्यन्तस्य ग्रहणम् , आदेवयतीति-आदेवकः, परिदेवकः, प्राक्रोशकः, परिक्रोशकः । उपसर्गादिति किम् ? देवनः, देवयिता, क्रोष्टा । देवतेय॑न्तादेवेति कश्चित् ।।६।।
- न्या० स०-उपसर्गादेव-ण्यन्तस्य ग्रहणमिति-लक्षणप्रतिपदेत्यस्य न्यायस्यानित्यत्वात् अथवा भिन्नदेवृग्रहणात् अन्यथा देवग्रहणमेव कुर्यात् ।
वृभिक्षि-लुण्टि-जल्पि-कुट्टाट्टाकः ॥ ५. २. ७० ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यष्टाक: प्रत्ययो भवति ।
वृणीते इत्येवंशीलो-वराकः, वराको । मिक्षाकः, भिक्षाकी । लुण्टाकः, लुण्टाको । जल्पाकः, जल्पाकी। कुद्राक:, कुद्राकी। टकारो उद्यर्थः ॥७॥
प्रात् सू-जोरिन् ॥ ५. २. ७१ ॥ प्रात् पराभ्यां सुवति-जुभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यामिन् प्रत्ययो भवति ।
'सू' इति निरनुबन्धग्रहणात सुवतेस्रहणम्, न सूति-सूयत्योः । प्रसुवतीत्येवंशील:प्रसवी। प्रजवी ॥७॥
जीण-दृ-ति-विधि परिभू-वमा-ऽभ्यमाऽव्यथः । ५. २. ७२ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इन् भवति । जि-जयतीत्येवंशोलो-जयी, इण्-अत्ययी, उदयो, दृ-आदरी, क्षीति क्षि-क्षितो