________________
२६६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-६२-६७
संवसतीत्येवंशीलः-संवासी, प्रवासी । शनिदेशाद् वस्तेन भवति ।।६१।। समत्यपाभिव्यमेश्वरः॥ ५. २. ६२ ॥
'सम्, अति, अप, अभि, व्यभि' इत्येतेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानाच्चरेघिणन् भवति ।
संचरतीत्येवंशीलः-संचारी, अतिचारी, अपचारी, अभिचारी, व्यभिचारी ॥६२।। समनुव्यवाद रुधः॥ ५. २. ६३ ॥ 'सम्, अनु, वि, अब' इत्येतेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानात् रुघोधिनण भवति। . संरुन्धे इत्येवंशीलः-संरोधी, अनुरोधी, विरोधी, अवरोधी ॥६३ । वेर्दहः ॥ ५. २. ६४ ॥
विपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् दहेधिनम् भवति । विदहतीत्येवंशीलोविदाही ॥६४॥
परेदेवि मुहश्च ॥ ५. २. ६५ ॥
देवीति देवृधातोरण्यन्तस्य ण्यन्तस्य च ग्रहणम् । परिपूर्वाभ्यां शीलादौ सत्यर्थे वर्तमानाम्यामाभ्यां दहश्च घिनण् भवति ।
परिदेवते परिदेवयति वा-परिदेवी । ण्यन्तान्नेच्छन्त्यन्ये । परिमोही, परि॥६५॥ न्या० स०-परेर्देवि-वृधातोरिति-लाक्षणिकत्वात् दीव्यतेय॑न्तस्य न ग्रहणम् । क्षिप-रटः ॥ ५. २.६६ ॥ . परिपूर्वाभ्यामाभ्यां शीलादो वर्तमानाम्यां घिनण् प्रत्ययो भवति । परिक्षिप्यति परिक्षिपति वा-परिक्षेपी, परिक्षेप्यम्भसाम्, परिराटी॥६६।। वादेश्व णकः ॥ ५. २. ६७॥
परिपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् वादयतेः क्षिप-रटिम्यां च णकः प्रत्ययो भवति ।
परिवादयतीत्येवंशील:-परिवादकः । वदेरपि केचित् । परिक्षेपकः । परिराटकः । असरूपत्वात् "णक-तृचौ" (५-१-४८) इति सिद्ध पुनविधानं शीलादिप्रत्ययेष्वशीलादिकृतप्रत्ययोऽसरूपविधिना न भवतीति ज्ञापनार्थम्, तेनालंकारकः, परिक्षिपः, परिरट इत्यादि शीलाद्यर्थे न भवति । बाहुलकाव क्वचिद् भवत्यपि
"काम-क्रोधो मनुष्याणां खादितारौ वृकाविव" । अत्र णकविषये तृच् ॥६७॥