________________
पाद-२, सूत्र-२८-३३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः।
[२५९
न्या० स०-तृनशील-श्राविष्ठायना इति-श्रूयतेऽनेन 'पुन्नाम्नि' ५-३-१३० इति घः, श्रवोऽस्त्यासां श्रववत्यः, अतिशयेन श्रववत्य इति विगृह्य इष्ठप्रत्यये पुंभावे 'विन्मतोः' ७-४-३२ इति लुपि श्रविष्ठा धनिष्ठास्ताभिश्चन्द्रयुक्ताभिर्युक्तः कालः, 'चन्द्रयुक्त' ६-२.६ इत्यणि लुपि श्रविष्ठास्तासु जाता 'श्रविष्ठाषाढा' ६-३-१०५ इति अः, श्रविष्ठाया अपत्यानि वृद्धानि अश्वादेरायन' ६-१-४९ । भाज्यलंकृग्-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-ऽपत्रप
इषः ।। ५. २. २८ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इष्णुः प्रत्ययो भवति ।।
भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वा-भ्राजिष्णुः, "भ्राजिष्णुना लोहितचन्दनेन", अलंकृग-अलंकरिष्णुः, निराकृग्-निराकारिष्णुः, भू-भविष्णुः, "सर्वेषां मविष्णनां जन्यानां न तु स योग्यः" । सह-सहिष्णुः, रुच-रोचिष्णुः, वृत-वतिष्णु, वृध-वधिष्णुः, चर्-चरिष्णुः, प्रजन-प्रजनिष्णुः, अपत्रप-अपत्रपिष्णुः । भ्राजेनेच्छन्त्येके ॥२८।।
उदः पचि-पति-पदि-मदेः ।। ५. २. २१ ॥ उत्पूर्वेभ्य एभ्यः शीलादो सत्यर्थे वर्तमानेभ्य इष्णुर्भवति ।। उत्पचिष्णुः, उत्पतिष्णुः, उत्पदिष्णुः, उन्मविष्णुः । पदेनेच्छन्त्यन्ये ॥२६।। भू-जेः ष्णुक ॥ ५. २. ३०॥
शीलादौ सत्यर्थे वर्तमानाम्यां भू-जिभ्यां ष्णुक् प्रत्ययो भवति । भूष्णुः, जिष्णुः । ककार: कित्कार्यार्थः ।।३०॥
स्था-ग्ला-म्ला-पचि-परिमृजि-तेः स्नुः ॥ ५. २. ३१ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः स्नुप्रत्ययो भवति । स्थास्नुः, म्लास्नुः पक्ष्णुः, परिमाणुः, क्षेष्णुः । म्लादिभ्यः केचिदेवेच्छन्ति ॥३१॥
न्या० स०-स्थाग्लाम्ला-परिमाणु रिति-'धूगौदितः' ४-४-३८ इत्यनेन विकल्पेनेटि प्रत्यये परिमाजिष्णुरित्यपि।।
क्षेष्णुरिति-'क्षिष्श् इत्यस्य न सानुबन्धत्वात् । त्रसि-गृधि-धृषि-क्षिपः क्नुः ॥ ५. २. ३२ ॥
शोलादौ सत्यर्थे वर्तमानेभ्य एभ्यः क्नुः प्रत्ययो भवति । प्रस्नुः, गृघ्नुः, घृष्णुः, क्षिप्नुः ।।३२॥
सन्-भिक्षाऽऽशंसेरुः ॥ ५. २. ३३ ॥