________________
२६० ]
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-२, सूत्र-३४-३७
शोलादौ सत्यर्थे वर्तमानात सन्प्रत्ययान्ताद् धातोभिक्षा-शंसिभ्यां च पर उ: प्रत्ययो भवति ।
चिकीर्ष:, जिहीर्ष:, भिक्षुः । 'आशंस्' इति "आङः शसुङ इच्छायाम्" इत्यस्य ग्रहणम् , न तु "शंसू स्तुतौ च" इत्यस्य, तत्राङ्योगस्यानियतत्वात् । आशंसुः । स्तुत्यर्थस्यापीच्छत्यन्यः ॥३३॥
न्या० स०-सनभिक्षा-गर्गादौ जिगीषुशब्दपाठात् सन्निति सन्प्रत्ययान्तस्य ग्रहः, न भिक्षादिसाहचर्यात् सनतिसनोत्योर्द्धात्वोः प्रत्ययाप्रत्ययोरिति न्यायाद् वा इत्याहसन्प्रत्ययान्तादिति ।
विन्दिच्छू ॥ ५. २. ३४ ॥
शीलादो सत्यर्थे वर्तमानाद् वेत्तेरिच्छतेश्च उ: प्रत्ययो यथासंख्यं नोपान्त्य-छकारान्तादेशौ च निपात्यन्ते ।
वेदनशीलो-विन्दुः, एषणशील-इच्छुः । कथमपां विन्दुः ? विन्देरवयवार्थात् प्रौणादिक उः । अन्ये त्वस्यैव निपातनं, क्रियानिमित्तस्तु विन्दुरित्यनागमिक एवेत्याहुः। सर्वविदीनां सर्वेषीणां च निपातनमिदमित्यन्यः ।।३४।
श-वन्देरारुः ॥ ५. २. ३५ ॥
शीलादौ सत्यर्थे वर्तमानाभ्यां शश-वन्दिम्यामारुः प्रत्ययो भवति । शणातीत्येवंशील:-शरारुः, विशीर्यते-विशरारुः । वन्दते-वन्दारुः ॥३५।।
दा-ट्धे-सि-शद-सदो रुः ॥ ५. २. ३६ ॥
शीलादौ सत्यर्थ वर्तमानेभ्यो 'दारूप ट्धे सिशद सद' इत्येतेभ्यो रुः प्रत्ययो भवति ।
ददाति, दयते, यच्छति, यति, दाति, दायति वेत्येवंशीलो-दारुः । कथं द्यति तदिति-दारु काष्ठम? औणादिकः कर्मणि रुः । धयति-धारुर्वत्सो मातरम । सिनोतिसेरुः । शीयते-शद्रः। सीदति-सद्रुः। एभ्य इति किम् ? दधातीत्येवंशीलो-दधिर्गाः । धग्रहणाद् दारूपमिह गृह्यते न संज्ञा ।।३६।।
शी श्रद्धा-निद्रा-तन्द्रा-दयि-पति गृहि-स्पृहेरालुः ।। ५. २. ३७॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य आलुः प्रत्ययो भवति ।
शेते इत्येवंशील:-शयालुः । श्रत्पूर्वो धाग, श्रद्धत्ते-श्रद्धालुः । निद्राति निद्रायति वानिद्रालुः, तत् द्राति द्रायति वा-तन्द्रालुः, निपातनात् तदो दस्य नः, तन्द्रेति सौत्रो वा। दयते-दयालुः । पति-गृहि-स्पृहयोऽदन्ताश्चौरादिकाः, पतिगृही सौत्राविकारान्तौ वा, पतपति-पतयालुः, गृहयते-गृहयालुः, स्पृहयति-स्पृहयालुः, मृगयतेरपि कश्चित-मृगयालुः ।