________________
२५८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-२६-७२
न्या० स०-धारीडो-इङ, इत्यात्मनेपदित्वात् फलवत्कर्तरि धोरश्च सामान्यसूत्रेण शतृन प्राप्नोतीति सूत्रं कर्तव्यम् , तथापि प्रत्ययान्तरं मा विधायि शतृरेव विधीयतां सूत्रसामर्थ्यादिङ आत्मनेपदिनोऽपि भविष्यति ? नैवं,-इङ आत्मनेपदित्वेऽपि विधानसामर्थ्यात शतः स्यात् धारेस्तु फलवत्कतरि अकृच्छ्र एवार्थ शतृरिति नियमाः स्यात् यद् वा धारीत्युभयपदी ततश्च यधुभयपदिनामऽकृच्छ शतृः स्यात् , तदा धारेरेवेति नियमः स्यात् ।
प्राचाराङ्गमिति-आचारप्रतिपादकमङ्गमाचाराङ्ग, आचर्यते शोभनं कर्मानेन 'व्यञ्जनाद् घन ' ५-३-१३२ आचारश्च तदङ्ग चेति वा ।
दुमपुष्पीयमिति-द्रुमपुष्पमधिकृत्य कृतो ग्रन्थः, 'शिशुक्रन्दादिभ्य ईयः' ६-३-२००, अथवा द्रुमपुष्पस्य तुल्यं 'काकतालीयादयः' ७-१-११७, अथवा द्रुमपुष्पमत्रास्ति 'सूक्तसाम्नोरीयः' ७-२-७१ ।
कृच्छेण धारयतीति-अत्र शत्रानशावपि भवतः । यतिधर्ममिति-यमनं यतं तदस्यास्ति इन् यतिनो धर्मः, यदा तु यतिधातोरोणादिक इप्रत्ययस्तदा यतेर्द्धर्मः ।
सुग-द्विषा-ऽर्हः सत्रि-शत्रु-स्तुत्ये ॥ ५. २. २६ ॥
सत्यर्थे वर्तमानात सुनोतद्विषोऽहंभ्र धातोर्यथासंख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश् प्रत्ययो भवति ।
सत्री-यजमानः, सर्वे सुन्वन्तः, यज्ञस्वामिन इत्यर्थः । चौरं विषन , चौरस्य द्विषन , शत्ररित्यर्थः । प्रजामहन, प्रशस्य इत्यर्थः। एबिति किम? सरी सनोति, भार्या देष्टि परं पश्यन्तीम् , वधमर्हति चौरः ॥२६॥
___ न्या० स०-सुद्वि-नन्वेषु शतृप्रत्यये अतृश्प्रत्यये वा रूपसाम्यान्न कश्चिद्विशेषः ? उच्यते, प्राकृते शत्रानशौ इति सूत्रे विशेषोऽस्ति ।
तृन शील-धर्म-साधुषु ॥ ५. २. २७॥ शोले धर्म साधौ च सत्यर्थे वर्तमानाद् धातोस्तृन् प्रत्ययो भवति ।
शोले-कर्ता कटम , वदिता जनापवादान्, करणं वदनं चास्य शीलमित्यर्थः । धर्म:कुलाद्याचारः, तत्र-वधूमूढां मुण्डयितारः श्राविष्ठायनाः, श्राद्ध सिद्धमन्नमपहर्तार अाह्वरकाः, मुण्डनादि तेषां कुलधर्म इत्यर्थः । साधौ-गन्ता खेलः, कर्ता विकटः, साधु गच्छति साधु फरोतीत्यर्थः ।
नप्तृ-नेष्ट-त्वष्टक्षत्त-होतृ-पोतृ-प्रशास्तृशम्दा औणाविकाः पितृमात्रादिवत् , प्रत पवैषामाविधौ पथनपादानम् । शीलादिष्विति किम् ? कत
दानम । शीलादिग्विति किम ? कर्ता कटस्य । बहुवचनं "सन-भिक्षाशंसेहः" (५-२-३३) इत्यादौ यथासंख्यपरिहारार्थम् । नकारः सामान्यग्रहणविधातार्थः ॥२७॥