________________
पाद-२, सूत्र-२३-२५ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२५७
सत्यर्थे वर्तमानाद् वेत्तेः क्वसुप्रत्ययो वा भवति, पक्षे यथाप्राप्तम् ।
विद्वान्, साधुस्तत्त्वं विद्वान् विदन् वेत्ति । विदुषा कृतम्, विदता कृतम् । हे विद्वन् !, हे विदन ! । वैष:. वेदतः । विद्याक्तिः। विवक्तिः । विदानास्ते. विदन्नास्ते । विद्वाल्लभते, विदल्लंमते । द्वितीयाद्यन्तपदसामानाधिकरण्याविषु पूर्ववदनन्वयादेव न वर्तमाना। ककारः कित्कार्याथः । उकारो ज्यर्थः ॥२२॥
न्या० स०-वा वेत्तेः-'असरूपोऽपवादेन' ५-१-१६ इत्यनेन विकल्पे सिद्ध वाग्रहणमत्र प्रकरणे असरूपविधेर्लक्ष्यानुरोधार्थ, अत एव 'वयः शक्ति' ५-२-१४ इत्यत्रानभिधानान्न वाऽसरू
कित्कार्याद्यर्थ इति-आदिपदात् 'तृन्नुदन्त' २-२-९० इत्यादि ।
पूङ् यजः शानः ॥ ५. २. २३ ॥ सत्यर्थे वर्तमानाम्यां पति-यजिभ्यां परः शानः प्रत्ययो भवति, कृत्त्वात कर्तरि ।
पवते-पवमानः, मलयं पवमानः । यजति यजते वा-यजमानः । पानशा योगे न षष्ठीसमासो, न च यजेरफलवति कर्तरि सोऽस्तीति वचनम्, एवमुत्तरत्रापि । शकारः शिकार्यार्थः ।।२३॥
- न्या० स०-पूयजः-मलयं पवमान इति-'तृन्नुदन्त'.२-२-९० इत्यनेन आनद्वारा कर्मषष्ठीनिषेधे मलयस्य संबन्धी पवमान इति संबन्धषष्ठीसमासः । नन पूङ आत्मनेपदित्वात् यजेरप्युभयपदित्वात् फलवत्कर्त्तरि 'शत्रानशौ' ५-२-२० इत्यनेनैव वानश् सिद्धः किमनेन ? इत्याह-मानशा योगे न षष्ठीसमास:-तृप्तार्थेति निषेधात् ।
वयः शक्ति-शीले ।। ५. २. २४ ॥
सत्यर्थे वर्तमानाद् धातोर्वयः-शक्ति-शोलेषु गम्यमानेषु शानो भवति, वयः-प्राणिनां कालकृता बाल्याद्यवस्था ।
____कतोह शिखण्डं वहमानाः, स्त्रियं गच्छमानाः । शक्तिः-सामर्थ्यम्, कतीह हस्तिनं निधनानाः, समश्नानाः । शीलं-स्वभावः, कतीहात्मानं वर्णयमानाः, परान्निन्दमानाः । अनमिषानान्न वाऽसरूपः शतृः ॥२४॥
धारीडोकृच्छेऽतृशू ।। ५. २. २५ ॥
अकृच्छ:-सुखसाध्यः, अकृच्छे सत्यर्थे वर्तमानाद् धारेरिङश्न परोऽतृश् प्रत्ययो भवति ।
धारयन् आचाराङ्गम्, अधीयन् ब्रुमपुष्पीयम् । अकृच्छ इति किम् ? कृच्छेण धारयति यतिधर्मम्, कृच्छणाधीते पूर्वगतम् । इङ आनशि प्राप्ते धारेरुभयप्राप्ती वचनम् । वासरूपोऽपि नेष्यत एव ॥२५॥